पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५२.

पालकाप्यमुनिविरचितो मेदस्तु पश्चमी ज्ञेया अस्थि षही विधीयते ॥ मज्जा व सप्तमी ज्ञेया एवं सप्तविधा छविः ॥ १८ ॥ असंख्येपानि रोमाणि केविच्छास्त्रविदी विदुः ॥ आयुर्वेद विधानज्ञाः ( 'केवित्संख्यां विदुर्बुधाः ) ॥ १९ ॥ संपूर्ण सर्वगात्रस्य प्रमाणं परिकीर्तितम् || अम्बुतेजोमयी दृष्टिः सा सप्तपटला भवेत् ॥ २०० ॥ सप्तधातुसमुत्थं तु शरीरमिह पठ्यते ॥ चतुर्विधाहारमयस्त्वोषधीनां तु यो रसः ॥ १ ॥ पक्काशयमनुप्राप्तः पूर्वमामाशये स्थितः || प(पा) चितस्तेजसा कोष्ठे वायुना समुदीरितः ॥ २ ॥ अदृष्टः स रसः पृथ्वीः सिराः समनुपद्यते ॥ या वै रसवदाः काये वारणानां विशेषतः ॥ ३ ॥ स रसः शोणितीभूतो मांसत्वमुपगच्छति ॥ मौर्स मेदस्त्वमागच्छेन्मेदोऽस्थित्वं च दन्तिनाम् ॥ ४ ॥ अस्थिभ्यो जायते मज्जा शुक्रं मज्जा च पुष्यति ॥ २०५ ॥ स्थानानि षडनुप्राप्तो वीर्य समनुलभ्यते ॥ औषधीरसवीर्यं नु शरीरे सर्वगं स्मृतम् ॥ ६ ॥ पस्तत्र किट्टनिःसारः शकृत्स उपपद्यते || सूत्रं चास्य वधोभागे वारणस्य शरीरजः ॥ ७ ॥ कट्यां मूत्रधरो बस्तिरेकद्वारो ह्यधोमुखः ॥ अपां 'श्री (स्त्रो)त्रैः सुसूक्ष्मैः स निर्झरैरिव पूर्यते ॥ ८ ॥ प्रतिपूर्णस्ततो बस्तिरपानं प्रतिपद्यते || अपाने शिथिलीभूते वेदना तु ततो भवेत् ॥ ९ ॥ एवं विसृजते मूत्रं समानेन समीरितम् ॥ इति शारीरमुद्दिष्टं वारणानां यथाक्रमम् ॥ २१० ॥ मृत्काष्ठवल्केर्हि यथा कुशलैः क्रियते गृ॒हम् ।। एवं शरीरबन्धस्तु मांसनायवस्थिभिः कृतः ॥ ११ ॥ + धनुर्मध्यस्थः कपुस्तके त्रुटितः । १ ख. अस्मि । २ ऋ. सर्वजं । ३ क. श्रोत्रे | ४ क. भृशम् ।