पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्नुनिविरचिती- आयासकाण्डे रम्भे च स्तनानुसार एव च ॥ मेण्डे चैवाण्डकोशे च नवतिः संघयः स्मृताः ॥ ४३ || अंसे च प्रत्यगंशे च तथऽसफलकेऽपि च ॥ संघपस्तत्र विज्ञेया वारणस्प तु विंशतिः ॥ ४४ ॥ ग्रीवाबिन्दुषितानेषु पिपिडकावग्रहे तथा ॥ आसने शयने स्थाने विद्यात्संधिशतानि षट् ॥ १४५ ॥ पुरस्कारावग्रहे च निर्माण श्रवणे तथा ॥ ईषिकान्तरयोश्चैव वासकुम्भे च दन्तिनः ॥ ४६ ॥ द्वे च संधिशते माहुः संधींश्चापि चतुर्दश || स्व (क)टे च खलु नेत्रान्ते एकैके संघयः स्मृताः ॥ ४७ ॥ विषाणयोद्वयोश्चापि हस्ते द्वात्रिंशदीरिताः || उरसि द्वादश ज्ञेया मुखे त्रिशति (?) रेव च ॥ ४८ ॥ दशनासगदाये तु संधयस्तत्र षोडश || जिह्वायां तु त्रयः प्रोक्ताः कण्ठे ज्ञेयास्त्रयोदश ॥ ४९ ॥ भासने वंशदेशे च तत्पिले पश्चिमासने || तथा त्वपरवंशे च द्वात्रिंशत्संधयः स्मृताः || १५० ।। अस्थिभागे च जघन उत्कृष्टकलयोरपि ॥ भागेष्वेतेषु नागस्ये द्वात्रिंशत्संधयः स्मृताः ॥ ५१ ॥ (* लालवंशेला के द्वात्रिंशत्संधयः स्मृताः ।) करीषभागे प्रस्रावे गुदभागे च दन्तिनः ॥ ५२ ॥ संघयो विंशतिर्हेया भागेष्वेतेषु निश्चिताः || पलिहस्ते ततः कर्ममोहसंदानयोरपि ॥ ५३ ॥ अपस्कारे च नागस्य क्रोशसंधि विनिर्दिशेत् || बाहोरथसफलके पाद्याभागे तथैव च ॥ ५४ ॥ ग्रन्थिष्वपि तथाऽष्ठीव्ये ज्ञेयास कटिकासु च || उत्कृष्टेऽप्यथ मण्डूक्यां मागेष्वेतेषु दन्तिनः ॥ १५५ ॥ समुद्रसंधिः सर्वेषु यथावदिति निश्चयः || लाङ्गूलबंशे लाङ्गूले जघनत्र्पस्थिदेशयोः ॥ ५६ ॥

  • धनुश्चिह्नद्वयान्तःस्थः पाठो नास्ति कपुस्तके ||

१ क. °नुरस ए° । २ क. स्य संधयः षोडश स्मृ° |