पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९ शरीरविचयाध्यायः ] हस्त्यायुर्वेदः । अपानेन यदा वायुं वारण: प्रेविभुञ्चति || पक्काशयनिबद्धास्तु ज्ञेयास्तौस्तु चतुर्दश |॥ २९ ॥ एकादश शतान्येवं सप्ततिश्च पुनः सिराः || (ऋचारणस्य प्रदेशेऽस्मिन्व्याख्यातास्ता: प्रदेशगाः ॥ १३० ॥ शतानि त्रीणि शेषाणि त्रिंशदन्याः पुनः शिराः ॥ ) एता रक्तवहा दृष्टाः शरीरं सर्वमेव हि ॥ ३१ ॥ सिराभिः संवृतं याभिर्वल्लीभिरिव पादपः || अत्र प्रतिविशेषं तु हस्तिन्यामुपलक्षपेत् ॥ ३२ ॥ एकैकस्मिन्स्तने दृष्टाः सिराः क्षीरवहा दश || हृदयंगमाः सुसूक्ष्माश्चेति प्रोक्तः सिराविधिः ॥ ३३ ॥ शतानि पञ्च (नागस्य सहस्रं च) विशेषतः ॥ रेतोत्सर्गकरा यास्तु वारणानां सिरा दश ॥ ३४ ॥ मैथुनार्थं च या दृष्टास्ता एव विंशतिः स्मृताः नव संधिशतान्येवं वारणेष्ववधारयेत् || १३५ ।। ४४७ अतः परं प्रवक्ष्यन्ते संधयो वारणस्य तु || द्वाविंशतिः संधयस्तु पादे पादे विनिश्चिताः || ३६ ॥ मोहसंधानभागे च पलिहस्ते च दन्तिनः || एतेष्वङ्गमदेशेषु संधयश्च चतुर्दश ॥ ३७ ॥ एवं भागे त्वपस्कारे पादे विक्षोभयोरपि || प्रतिमाने व विज्ञेयाः संधयस्तु चतुर्दश || ३८ || गुच्छे सगुटिकायां च स्युस्तथाऽन्तरसक्थनि || संघयोऽत्र महाराज विज्ञेयास्तु चतुर्दश ॥ ३९ ॥ मण्डूक्यन्तरसंधौ तु अव्ये तु विशेषतः || संघयस्तत्र विज्ञेया वारणस्प तु विंशतिः ॥ १४० ॥ आयासकाण्डे रन्धे च स्तनानुसार एव च || मेण्ढे चैवाण्डकोशे च नवतिः संधयः स्मृताः ॥ ४१ ॥ अंसेच प्रत्यगंशे च तथांऽसफलकेऽपि च ॥ संघयस्तत्र विज्ञेया वारणस्य तु विंशतिः ॥ ४२ ॥

  • 'धनुश्चिह्नद्वयान्तःस्थो नास्ति पाठः कपुस्तके |

१ क. प्रतिमुञ्चति । २ क. °स्तासु च° | ३ क. °नुरस ए° ।