पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९ शरीरविजयाध्यायः ] हस्त्यायुर्वेदः । प्रतरास्थि तलमोहे विद्यादेकं विचक्षणः || तलकर्षे व विज्ञेयं प्रतरास्थ्येकमेव तु ॥ ४८ ॥ अष्टावेव हि पादेषु मंतरास्थीनि निर्देिशेत् || चतुर्थे च महीपाल संघपश्चात्र षोडश ॥ ४९ ॥ पलिपादेषु कर्णेषु मोहयो: मोहसंधिषु ॥ एतेष्वङ्गप्रदेशेषु गुलिकास्थीनि विंशतिः ॥ ५० ॥ अशीतिरेव पादेषु चतुर्ष्वपि च पार्थिव || विंशतिश्च नखानि स्युः संधीनां द्व्यधिकं शतम् ॥ ५१ ॥ विशेषास्थ्येकबाह्रस्थि वंशास्थीनि च गात्रयोः || पूर्वपोस्तु षढस्थीनि ह्येवं षट्चैव संधयः ॥ ५२ ॥ अस्थीनि संघपश्च स्युः षडेवापरयोरपि ॥ कपालास्थ्येकमेवाऽऽहुः सर्वतो जघनाश्रितम् || ५३ ॥ चतुर्दशाssहुरस्थीनि नागस्योरसि संख्यया || संघयस्त्वपि चास्तु दश पञ्च च निश्चिताः ॥ ५४ ॥ अस्थीनिविंशतिः पृष्टौ (ष्ठे) संधयश्चैकविंशतिः ॥ पक्षयोरुभयोर्विद्याच्चत्वारिंशच पार्श्वकाः ॥ ५५ ॥ द्विचत्वारिंशेदेवाऽऽसां पार्श्वकानां तु संधयः || ऊर्ध्वास्थीन्येकविंशत्स्यु: संधयश्चैकविंशतिः ॥ ५६ ॥ लाङ्गूलवंशलाङ्गले गुलिकास्थीनि विंशतिः ॥ त्रिंशत्तु संघयश्चात्र संख्यया विद्धि पार्थिव ॥ ५७ ॥ त्रीण्यस्मां तु शतान्येवं विंशतिश्चैव संख्यया || शतानि त्रीणि संधीनां षट्षष्टि चापि निर्दिशेत् ॥ ५८ ॥ हस्ते च तालुनि द्वे द्वे मुखे नेत्रे कटिद्वपे ॥ द्वे कर्णयोश्च प्रत्येकमेवमेकादशैव तु ॥ ५९ ॥ स्तनयोश्चैव मेण्ट्रे च नागस्य तु गुदे तथा ॥ विद्यात्पञ्चदशैतानि श्रो( स्रो) तांसि वदतां वर || ६० ॥ १४१ १ क. प्रान्तरास्थि । २ क. यं प्रान्तरा० । ३ क. प्रान्तरास्थीनि । ४ क ● तो यजना ° । ५ क. °शदासां तु पा° । ६ क. तालुके ।