पृष्ठम्:हरिहरसुभाषितम् (काव्यमाला).pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९
हरिहरसुभषितम्

वीराणामेष गन्ता नगरमयमरीन्संमुखानेव हन्ता
 सद्यो भेद्यं ततस्तैर्बत रुचिरमिदं मण्डलं चण्डभासः ।
मत्वैतन्मेदिनीयं प्रतरुणकरुणोत्कम्पिता त्वत्प्रयाणे
 सेनाधूलीवितानाञ्चलतलविवलद्विम्बमेनं विधत्ते ॥ २२ ॥

त्वत्सैन्ये धरणीमणे प्रचलति प्रोत्पीतमर्मान्तरे
 कूर्मे द्राक्परिवर्तिनि क्षितितले व्यावर्तमाने ततः ।
वार्धेर्वारिभवे बहिर्विचलिते मैनाकपक्षक्षतिः
 किं न स्यात्स न चेद्भवेद्विकलहग्धूलीभरैर्वासरः ॥ २३ ॥

यौष्माकीणे प्रयाणे प्रचलजलनिधिप्रोच्छलद्वारिपूर
 स्नातैर्नालम्भि तोयप्लुतधरणिगतैर्धू लिरुद्धूलनाय ।
सेनारिङ्गत्तुरङ्गावलिवलितखुरोद्भूतधूलीवितान
 व्याप्तैर्निष्प्रयत्नं स्थितमतिसुखितैर्दिग्गजग्रामणीभिः ॥ २४ ॥

भूमीपाल कृपालवस्तव हया द्राग्दीर्णताया भयादुल्लङ्घ्यैव
 गिरीनटन्त्यघटितैष्टापानलैश्चञ्चलैः ।
क्षुद्रा क्षोणिरियं स्फुरत्खुरपुटक्षु[ण्णा]क्षणान्मास्त्वितो
 धावन्त्यम्बरमेव चत्वरमनुप्राप्यान्तराप्यायिताः ॥ २५ ॥

इन्द्रो निन्दति वाहमाह दिनकृद्गुर्वा च मे वार्वत-
 श्चञ्चुर्न्यञ्चति किं न पन्नगरिपोरन्तस्त्रपोद्रेकतः ।
वातः खञ्जति पङ्गुपुञ्जति मनोराजिभवद्वाजिषु
 द्वेषामाजिषु वैरिणामभिमुखं धावत्सु यावत्सुखम् ॥ २६ ॥

वान्तु क्वामी समीराः क्षणमपि च मनः कुत्र न स्पृष्टपृष्ठं
 तिष्ठन्त्वेते सहस्र समपथि गिरयः को वयस्यापकर्षः ।
किं नश्छिन्नं प्रतेयुर्यदि जलनिधयः सर्वतः संनिकर्षा
 न्हेषाहर्षान्नृपैतत्त्वयि जिगमिषति व्याहत्येव वाहः ॥ २७ ॥

समुद्रावधिक्षुद्रभावान्दधाना कुतो भूर्यतोऽभीष्टवेगो विनष्टः ।
हयैर्मन्युनेवामुना हन्यते किं धरा निर्भराहंकृतैः पद्भिरेव ॥२८॥