पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/८३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३८]
[ सर्गः
श्रीहम्मीरमहाकाव्ये

  
अकृत्रिमालंकृतिराननस्य तस्योत्थिते श्मश्रुलते व्यभातां ।
आधिक्यतो घ्राणयुगाध्वनिर्य-च्छृंगारधारे इव नेत्रपेये ॥ १५४ ॥

केशाः केकिकलापकांतिजयिनो वक्त्रं शशिप्रीतिभित्
कंठः कंबुरिपुः कपाटपटुताविक्षेपि वक्षस्थलं ।
दोर्दडौ परिघापघातनिबिडौ पादौ कृताब्जापदौ
किंकिं रम्यतरं न यौवनपदं प्राप्तस्य तस्याभवत् ॥ १५५ ॥
 
विंध्ये सिंधुरवत् धने विधनवत् ज्ञातिप्रसूनेऽलिवत्
त्यागे याचकवत् गुणे सगुणवन्नपाये महीपालवत् ।
..पाकंदे पिकवच्छ्रुते विदुरवत्पाथोरुहे हंसवत्
तस्मिन् संसृजतिस्म वागविषयां प्रीतिं मनो योषितां ॥१५६॥
 
नारीभिः सुमचाप इत्यमरभूजन्मेति च प्रार्थिभि-
र्गंगाभूरिति सत्यसंगरपरै र्ब्रह्मेति तत्वोन्मुखैः ।
स्वर्भुग्भूरिति योद्धृभिर्यम इति प्रत्यर्थिपृथ्वीधवैः
कैः कैरेष कथं कथं न युवतामध्याश्रितस्तर्कितः ॥ १५७॥

सौंदर्यधन्या अथ सप्तकन्या पित्रा प्रमोदात्परिणायितोसौ ।
चिक्रीड ताभिः सह शश्वदस्तव्रीडं यथा दुश्च्वनः शचीभिः॥१५८॥

हम्मीरादितरावपि क्षितिपतेर्जैत्रस्य पित्र्यानुजौ
जज्ञातेंऽगरुडौ गुहाविव जगज्जैत्रप्रतापोदयौ ।
आद्योभादनयोर्नयोदयदलद्वल्लीवसंतः सुर-
त्राणोन्यः परवीरदारणरणारंभप्रभो वीरमः ॥ १५९ ॥
 
पूर्द्वारार्गलदीर्घपीनभुजभूप्रौढप्रतापज्वलत्-
ज्वालाजिह्वविषावलीकवलितप्रत्यर्थिभूमीधवैः ।
इत्यभ्यस्तनयैस्त्रिभिः स्वतनयैः संसेव्यमानोन्वहं
श्रीजैत्रः क्षितिपः स्म वीरजनकोत्तंसत्वमास्तिध्रुते ॥ १६० ॥

इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते हम्मीरमहाकाव्ये वीरांके तज्जन्मवर्णनोनाम चतुर्थः सर्गः समाप्तः॥