पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२]
१५
पूर्वज्ञवर्णनम्

 
गुणान् कणेहत्य निपीय यस्य भृशं प्रहृष्टोपि सुपर्ववर्गः ।
कष्टं [सचित्राहत एव तस्थौ न देवभूपं] श्रितवान् यदेषः ॥ ५९ ॥
 
तस्मादशोभिष्ट महिष्ठधामा महीमहेंद्रो जयपालनामा ।
स्रवद्भिरस्रैरिपुकामिनीनां यशस्तरुः पल्लवितो यदीयः ॥ ६० ॥
 
वृंदानि संख्ये बलिनामरीणां वीक्ष्यावरोधे च तनूदरीणां ।
यो विश्वविख्यातयशः प्रकाशो भृशं न कंदर्पमुरीचकार ॥ ६१ ॥

दुग्धोदधिस्फीततरत्तरंग-श्रेणिश्रियां वैभवजेतृभासः ।
जगूरणद्वेणुरवाभिरामं गुणान् यदीयानुरगेंद्रकन्याः ॥ ६२॥

गांगेयवद्रेयगुणस्ततॊऽभात् श्रीगंगदेवो वसुधासुधांशुः ।
निश्वासवातै रिपुकामिनीनां प्रतापसप्तार्चिरदीपि यस्य ॥ ६३ ॥
 
दोषाकरो यद्यशसो महत्वं विलोक्य मात्सर्यभरं दधानः ।
यदर्जयामास तम:कलंक-च्छलात्तदद्यापि न मुंचते ऽसौ ॥ ६४ ॥
 
परः शतेभ्योपि रिपुव्रजेभ्यो यच्छन्न तुच्छां सुरलोकलक्ष्मीं ।
उद्दामसंग्राममवाप्य मात्रा हीनः कृपाणोऽजनि यस्य नैव ॥ ६५ ॥
 
गतेषु कर्णादिषु दानशोंडे---ष्वयं जनो मा जनि दौस्थ्पपात्रं ।
ध्यात्वेति यं दायकचक्रशक्रं मन्ये दयालुर्विदधे विधाताः ॥ ६६ ॥

त्रैलोक्यलोकावलिकर्णकर्ण-पूरीकृतानंतगुणैकधाम । -
इलाविलासी जयतिस्म तस्मात् सोमेश्वरोऽनश्वरनीतिरीतिः ॥ ६७ ॥
 
रणेषु येन स्वकरांबुजेन प्रोल्लास्यमानासिलता चकासे ।
अंतः स्फुरत्क्रोधकृशानुजात-धूम्येव साक्षाद्वहिरुल्लसंती ॥ ६८ ॥

उक्तेन गोत्रस्खलनाद्यदीय-नाम्ना विलक्षं रमणं विधाय ।
चिराय संभोगरसंप्रसंगि चेतो निजं प्रीणयतिस्म का न ॥ ६९ ॥
 
वह्नेर्द्विषन्नंब्विति यत्प्रतापा ऽग्निमभ्यवर्षन्नरियोषितो ऽस्रैः ।
हविर्वदेभिर्ववृधे सकामं वामे विधौ वाममंशेषमेव ॥ ७० ॥
 
अनेन राज्ञा सममेकभावं कथं समायातु भुजंगराजः ।
अधात्सहस्रेण स गां शिरोभि रयं पुनस्तां भुजपैकयैव ॥ ७१ ॥