पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१]
पूर्वज्ञवर्णनम्

सर्वातिशायिद्युतिनी विधात्रा विधित्सितौजो यशसी यदीये ।
अवश्यमेतौ रचितौ प्रशस्या-भ्यासाय तिग्मद्युतिशीतरश्मी ॥७५॥

शंके प्रतिक्ष्मापतिकीर्तिलोप पापोपशांत्यै विदधेस्य कीर्तिः ।
स्नानं मुहुर्नाकनदीप्रवाहे शुभ्रत्वमासी त्कथमन्यथा स्यां ॥ ७६ ॥

अप्यस्तदोषस्य बभूव तस्य दोषद्वयं कामवशित्वलोभौ ।
सेनां कुमारीं बुभुजे मृधे य ल्ललौ तथैको विजयश्रियं च ॥ ७७ ॥

यत्कीर्तिगानं विनिशम्य शंके हरः प्रनृत्यन्प्रसरत्प्रमोदः ।
छुटज्जटानिर्यदमर्त्यसिंधु-पयःप्रवाहैरिव शुभ्र आसीत् ॥ ७८ ॥

खेलत्सु भूरिष्वपि याचकेषु दानैकलीलारसिकस्य यस्य ।
दा पृष्ठचारी किल यो नकारो यदि प्रियोसौ न परः कदाचित्॥७९॥

अनल्पसंकल्पनकल्पवल्लीं विपक्षपक्षव्रजभेदभल्लीं ।
त्रैलोक्यलोकावलिवंद्यपादां सेवापरप्रत्तमहाप्रसादां ॥ ८० ॥
 
शाकंभरीस्थानकृताधिवासां शाकंभरीं नाम सुरीं प्रसाद्य ।
विश्वापतिर्विश्वहिताय शाकं-भर्यां रुमां यः प्रकटीचकार ॥ ८१ ||
 
ततो धराभारमुरीचकार जितारिचक्रो हरिराजभूपः ।
शकाधिराजस्य रणे निहत्य सन्मानवन्मुग्धपुरं ललो यः ॥८९॥
 
रणाजिरे वैरभृतां भटाना मेकोपि यो ऽनेकतया चकासे ।
प्रपश्यतां निर्मलनीरपूर्ण-पात्रेषु तारापतिवज्जनानां ॥ ८३ ॥
 
भ्रांत्वाप्यदभ्रेषु धराधरेषु कुत्राप्यनासादितयोग्ययोगाः ।
पौरा इवौदार्यमुखा गुणाःस्म दिवानिशं यस्य पुरे वसंति ॥८४॥
  
अनेन पेठे पठताक्षराणि किं नो वृथा बोध्यथवा निदानं ।
निषेधतो स्मान्विशतो निषेद्धु मेवेति यस्मिन्कविवाग्वितर्कः॥८५॥

अस्याऽवनीमघवतोऽसिलतांबुराशे-
रस्ताघता सुमहतीति किमद्भुतं नः ।
अस्याद्भुताद्भुतमिदं तु सनीरतायां ।
सत्यामपि स्फुरति यज्जडता स्म नैव ॥ ८६ ॥