पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१]
पूर्वजवर्णनम्

जयश्रिया प्राप्तमहावियोगान्समूर्छयन् वैरिगणान्निकामं।
यो युध्यवाची पवनायितोपि चित्रं द्विजिव्हान्न सुखीचकार ॥२३॥
प्रस्पर्धत्ते मदाशसा ऽस्यं सूनुः शशीत्यमर्षात् किल योंऽबुराशेः ।
गांभीर्यलक्ष्मीं हरतिस्म किन्न सुतापराधे जनकस्य दंडः? ॥२४॥
तदा ऽख्यया जायत चाहमान-वंश स्त्रिलोकीविहितप्रशंसः ।
शश्वत् सुपर्वावलिसेव्यमान उत्पत्तिहेतु र्नरमौक्तिकानां ॥२५॥
तस्मिन् स्फुरद्विक्रमचक्रवाला वंशे बभूवु र्बहवो नृपालाः ।
त्रिवर्गसंसर्गपवित्रचित्र-चरित्रवित्रासितपापभाराः ॥२६॥
पराक्रमाक्रांतजगत्क्रमेणा भवन्नृपो दीक्षितवासुदेवः ।
शक्रासुरान् जेतु मिहावतीर्णः स्वयं धरायामिव वासुदेवः ॥२७॥
सपत्नसंघातशिरोधिसंधि-च्छेदादसिं कुंठतरं निजे यः ।
प्रतापवह्नावभिताप्य काम मपाययत्तद्रमणीदृगंबु ॥२८॥
छिन्नद्विषन्मंडलमौलिमूला-सृक्पूरदिग्धासिलताछलेन ।
रणाजिरे यस्य करे विरेजे व्यक्तानुरागेव भृशं जयश्रीः ॥२९॥
प्रवाद्यमाने रणवाद्यर्वृंदे संपश्यमानेषु दिवः सुरेषु ।
शौर्यश्रियं यो रणरंगभूमा वनर्त्तयद्वेल्लदसिच्छलेन ॥३०॥
भास्वान् जितो यन्महसा ददाति झंपां किमद्यापि न वारिराशौ ।
उन्मज्जति व्याकुलितो ऽन्वहं च सुदुस्त्यजं हा! हतजीवितव्यं ॥३१॥
तदंगजन्मा ऽज्जनि नाभिजन्मा-र्हणाचणः श्रीनरदेवभूपः ।
तनूदरीलोचनलोभनीय-तनुश्रिया तर्जितकामरूपः ॥३२॥
अशात्रवं विश्वमिदं विधातुं क्रुद्धे परिभ्राम्यति यत्र भूपे ।
राज्यश्रियं पातुमरातय1 स्व-कोशाद्वसून्पाचकृषुर्न खड्गान् ॥३३॥
संख्येषु पूर्वाचलचूडशोभां बाहुर्यदीयः कलयांबभूव ।
म्लानिं नयन्वैरिमुखांबुजानि रराज यस्मिन् नवचंद्रहासः ॥३४॥
प्रतापवह्नि र्ज्वलितो यदीयः स्थाने यदन्यायवनान्यधाक्षीत् ।
गज्जनाश्चर्यकरं तदेतत् यद्वैरिणां कंपभरं ततान ॥३५॥