पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१७८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३४
[सर्गः
श्रीहम्मीरमहाकाव्ये

तद्वंध्यासुतलालनामिव वृथा वैकल्पिकीं कल्पना-
माकल्पं परिकल्प्य जल्पततमां धैर्यं धियां केवलं ॥ ३२ ॥

ये श्रृंगारकथां प्रथां विदधते वाचां विलासैरस-
प्रोल्लासोत्र समस्तितेष्वनुभवो येष्वस्ति तेन्ये पुनः ।
वर्ण्या ये वदनेषु कुंदविशदास्तंबेरमाणां रदा
नैते चर्वणसाधनं तदिह ये दुर्ल्लक्ष्यरूपास्तु ते ॥ ३३ ॥

काव्यं काव्यप्रकाशादिषु रसबहलं किर्त्तयंत्युत्तमं यत्
तन्नोभावैर्विभावप्रभृतिभिरनभिव्यक्तमुक्तैः कदाचित् ।
तेनेति व्यक्तमुक्तं सरसजनमनःप्रीतये काव्यमेतत्
कश्चिच्चेन्नीरसोस्मिन् भजति बत मुदं नो तदा कस्य दोषः ॥ ३४ ॥

वदंति काव्यं रसमेव यस्मिन्निपीयमाने मुदमेति चेतः ।
किं कर्णतर्णर्णसुपर्णपर्णाभ्यर्णादिवर्णार्णबडंबरेण ॥ ३५ ॥

रसोस्तु यः कोपि परं स किंचिन्नास्पृष्टश्रृंगाररसो रसाय ।
सत्यप्यहो पाकिमपेशलत्वे न स्वादु भोज्यं लवणेन हीनं ॥ ३६ ॥

कविता वनिता गीतिः प्रायो नादौ रसप्रदाः ।
उद्गिरंति रसोद्रेकं गाह्यमानाः पुरः पुरः ॥ ३७ ॥

प्रायोपशब्दादिकृतोपि दोषो नचात्र चित्यो मम मंदबुद्धेः ।
न कालिदासादिभिरप्यपास्तो येऽध्वा कथं वा तमहं त्यजामि ॥ ३८ ॥

प्रायोपशब्देन न काव्यहानिः समर्थतार्थे रससेकिमा चेत् ।
वादेप्यसौ नो विदधीत किंचित् यदि प्रतिज्ञा विरमेन्न विज्ञः ॥ ३९ ॥

वाणी वाणीविलासात्प्रसरति विदुषां तेन शब्दापशब्दौ
प्रायश्चेतोविकल्पः कविमतवशगा शब्दशास्त्रेपि सिद्धिः ।
मत्वैवं मापशब्दं वदत सहृदया प्रौढकाव्यप्रयुक्ता
दिवाश्चेतेन वृद्धिं भजति कथमसौ तर्हि वाग्ब्रह्मकोशः ॥ ४० ॥

भवति काव्येषु महाकवीनां यत्येवभावा अशुभाः शुभा वा ।
प्रदर्शितास्ते कतिचित्ततीह नचेन्महाकाव्यमिदं कथं तत् ॥ ४१ ॥