सामग्री पर जाएँ

पृष्ठम्:स्वराज्य सिद्धि.djvu/१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२ ]
स्वाराज्य सिद्धि

श्रीमद् गंगाधरेन्द्रेण दुरूह श्लोक भावनः । स्वाराज्य सिद्धि नाम्ना वै कृतो ग्रंथो महाधिया ॥६॥ गंगाद्वारे प्रसंगाद्वै मित्रवर्येण नोदितः । ब्रह्मानन्देन भाषायां कुरु भो पद्य काशिकाम्॥७॥ यथामति बुभुत्सुभ्यः सहायं संकटेष्विव । तस्मिञ्ज्ञासुकरे ग्रंथे दर्शयस्व परिश्रमम् ॥८॥ भाषामात्रज्ञ दुर्बोधं स्फुटं व्याख्यास्यते पदम् । स्वमित्रोक्तिं समाहत्य भाषायां सुख हेतवे ॥६॥ कृतिभिरसुकरा: क्वनु प्रबन्धाः क्वचबत बालिश बुद्धिरेष जन्तुः। तदपि विरचनेऽत्र सद्गुरूणां सदय निरीक्षणमेव मेऽवलम्बः॥१०॥ अशेष विधांबुधिपारगाणामपास्तगादि- मनोमलानाम् । कृपा निधीनां कृतिनां ममास्मिन् सतांपदाब्जस्मरणं सहायः ॥११॥ स्वाराज्यतिलकोऽतोऽस्याः मया सम्यक् विधीयते । स्वाराज्य तिल के जाते को नकुर्यान्नमस्कृतिम् ॥११॥ सदयहृदया: संतः ग्रंथ मे व्यचिकीर्षतः। श्रमज्ञाः पंडिताः निष्ठाः चमध्वं स्खलितं क्वचित् ॥१३॥