एतत् पृष्ठम् परिष्कृतम् अस्ति
*ॐ*
श्रीमत् गंगाधरेंद्र सरस्वती प्रणीत
स्वाराज्य सिद्धि।
सरलान्वय पद्य काशिकाऽऽख्या भाषा टीका सहित ।
भाषा टीकात् मंगलाचरणम् ।
शिवमभयमनाद्यनन्तमध्यं परमसुखाद्वय बोध मात्र सारम् |उपरत सकल भ्रमं विशुद्धं निज महसा स्फुरदात्म तत्त्वमीडे॥१॥ यद्वाक्यामृत पायिनां प्रतिपदं चेन्द्रो रसो नीरसो यद्वा- क्यार्थ विचारणादभिमतं ब्रह्मैव सर्वं जगत् । यद्वाण्याः सु विचारणात्सुमनसां जाता स्ववीर्निष्कला तस्मै श्रीगुरवे स्व राममुनये नित्यं नमस्कुर्महे ॥२॥ हरि ध्यान मुनिं नत्वा ब्रह्म तत्त्वं परं गुरुम् । विद्यारत्न मामर मुनिं बोवं नमाम्यहम् ॥३॥
भरद्वाज महारत्न विरक्त हृदयाकरम् । मित्रवर्यं सदा वंदे नन्दरामं मुनीश्वरम् ||४|| जयति श्रीविरक्तानां चरणा- ब्जरजोगुणः । इतास्त्रया यदेकेन रजः सत्त्व तमोगुणाः ॥ ५ ॥