पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/84

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अनुबन्धः ५


स्फुटनिर्णयतुल्यग्रहमध्यमानयनम्


अथ दृक्रक्रिया उच्यन्ते--

( ग्रहमध्यमम् )

कल्पोदितैः खेचरपर्ययौधै-
रिष्टानि हत्वाऽथ कलेर्दिनानि ।
कल्पोदितैर्भूदिवसैर्विभज्य
लब्धाः कलौ ते गतपर्ययाः स्युः ॥ १ ॥

12
शिष्टात्'प्रिया'धैर्गुणिताच हृत्वा
तेनैव खेटा भगणादयः स्युः ।
तेषु स्वकल्याद्युदयध्रुवं च
क्षिपेद्, अहिः स्वध्रुवतो विशोध्यः॥ २॥

ते दृक्क्रयायां ग्रहमध्यमाः स्यु-
स्त एव खण्डध्रुवनामधेयाः ।
प्राक्स्थापितोऽभीष्टकलिस्तु खण्ड-
स्तुल्या क्रियेयं स्फुटनिर्णयोक्तैः ॥ ३ ॥


 Ms. Trip. Jy. 568 (O), ff. 26b-27a.

 1. On vv. 1-3, vide Sphuța. 2. 4.

स्फुढनिर्णथतप्त्रम्