पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/83

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५६
अनुबन्धः ४

परहितमध्यानयनं द्वितीयहारानपेक्षमतिसूक्ष्मम्।
एतद्दिवससहस्रे गते सखण्डध्रुवाः पृथक् कार्याः ॥ ६ ॥

2,46,66,13    52    Moon
‘लयतोषचत्वर'ध्नात् ‘प्राण'हृताश्चन्द्रमध्यविकलाः स्युः ।
   6487    34    Node
द्युगणात् 'सुजीवत'ध्नाद् ‘भोग'हृताः स्युर्विलिप्तिका राहोः ॥७॥

1,86,61    76    Mercury
 ‘पतितो दुष्ट'विनिघ्नात् ‘तीर्थे'हृताश्चन्द्रपुत्रलिप्ताः स्युः ।
नास्त्येषामिह भेदो दृक्पक्षे चापि मध्यमानयने ॥ ८ ॥

स्फुटनिर्णयतुल्यमिदं सूक्ष्मं सुगमं च मध्यमानयनम् ।
अस्यापि दिनसहस्रे गते सखण्डा ध्रुवाः पृथक् कार्याः ॥ ९ ॥