पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/76

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
स्फुटनिर्णयसंग्रहः

अत्रादिवर्षादिभवाद् ध्रुवात् स्वाद्
विशोध्य शेषः खलु राहुमध्यः ।
कृत्वा विलिप्तामथवार्कमध्यं
ह्रत्वा ग्रहाणां भगणैः क्रमेण ॥ १६ ॥

हृत्वा खरांशोर्भगणेन लब्धा
विलिप्तिकाः स्युर्ग्रहमध्यमानाम् ।
आरोप्य राश्यन्तमतः समाद्यै-
र्धुवैः समेता अपि खेटमध्याः ॥ १७ ॥

मन्दोच्चपाता अपि चैवमेव
कार्याः सुसूक्ष्मत्वमभीप्समानैः ॥ १८ ॥

[इति द्वितीयोऽध्यायः]


 1.The work as preserved in the Ms. ends here, abruptly, with the further words : शुभमस्तु, and does not extend to the further chapters of Sphufanirnaya.

स्फुटनिर्णयन्त्रम्-७