पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/75

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अनुबन्धः १

स्वदेशजस्तेन हरेत् स्वदेश-
समानरेखान्तरयोजनघ्नीम्।
सरोजबन्धोर्दिनभुक्तिमाप्तं
प्रत्यग् धनं प्रागृणमर्कमध्ये ॥ १२ ॥

( चन्द्रादिमध्यमम् )

स्थाप्य ग्रहाणां भगणांश्चतुर्धा
क्रमादधोधो रविमध्यमस्य ।
राश्यंशलिप्ताविकलाविनिघ्ना
60 30
स्त्वारोपिता 'नीत"नगैर्यथोक्तम् ॥ १३ ॥

स्थानादधोर्ध्वा॑द् रविपर्ययेण
लब्धा ग्रहाणामिह राशयः स्युः ।
भागीकृतात् तत्पुनरूर्वभागा-
दाप्ताश्च भागाः पुनरेव षष्ट्या ॥ १४ ॥

निहत्य लिप्ताविकलाश्च नीत्वा
12
राशौ तु चक्रादधिके 'प्रिया'प्ताः ।
समादिक स्वैः ध्रुवकैः समेता
मध्या ग्रहाणां स्युरभीष्टकाले ॥ १५ ॥


1. On vv. 13-18, vide Sphuta 2. 10c-11

2. The sense is स्थानादधऊर्वात