पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/74

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४७
स्फुटनिर्णयसंग्रहः

अभीष्टवारे तिथयोऽथ तास्ताः

64
क्षिप्त्वा पृथक्स्थाद् 'विष'भक्तलब्धाः ।
विशोधितास्त्विष्टसमादभीष्ट-
वारावधौ सावनवासराः स्युः ॥ ८ ॥

'सु'भक्तशिष्टं खलु वत्सराघ-
वारात्तु गण्यं भवतीष्टवारम् ।

(रविमध्यमम् )

एतदिनौघं रविपर्ययेण
निहत्य भूयः कुदिनेन हृत्वा ॥६॥

12
'क्रिया'दिनिघ्नाद् रविभूदिनाप्तं
राश्यादिकं भास्करमध्यमं स्यात् ।
अब्दान्तवारे घटिकान्तमेष्य-
मभीष्टवारे गतकालयुक्तम् ॥ १० ॥

2 139
पृथग् द्विनिघ्नाद् 'धिगपान भक्त-
हीनं कलाद्यं रविमध्यमे स्वम् ।

(वेशान्तरसंस्कारः)

3520
'नरेशलग्नः' परिधिर्धरायाः
स्वलम्बकघ्नस्त्रिभजीवयाप्तः ॥ ११ ॥


1. On vv. 9-11b, vide Sphuta. 2. 7-8

2. On vv. 11c-12,vide Sphuta. 2.9-10b.