पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/69

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अनुबन्ध:

लब्धा हि कल्पे गतपर्ययाः स्युः
शेषं ‘प्रिया'द्यैः क्रमशश्च हत्वा ॥ १२ ॥

हृत्वाऽयुतेनैव ततस्तु लब्धा
भवन्ति राश्यादिकखेटमध्याः ।
चक्राद्विशोध्यः खलु राहुमध्यः
कल्यादिभूता स्त इमे ध्रुवाः स्युः ॥ १३ ॥

तथैव कार्या भगणैर्मृदूच्चाः
पाताश्च कल्यादिभवाश्च ते स्युः ।

( कल्यादिवारानयनम् )।

57,019 4569
"धन्यो s सोमं" ‘धृतशम्भु'निघ्नं

70,000
‘नृनुन्ननाथे'न हृतावाशिष्टम् ॥ १४ ॥

10,000
‘अनूननम्ये'न हरेदवाप्ताः
सूर्यादिवारात्मकवासराः स्युः ।

60
शिष्टात् 'नत'ध्नाद् घटिकादि नीत्वा
कल्यादिजः संक्रमणध्रुवः स्यात् ॥ १५ ॥

( ग्रहाणां कल्यादिध्रुवाः )

Moon 04:21-21-36"
'तुला किरीटैरिव नूनम्' इन्दुः

Apsis 3-28°-50'-9”-36”
‘चेलार्धनूत्ना मृदुरङ्गनो'च्चः ।


On vv. 14-15, vide Sphuța, 2, 2