पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/66

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अनुबन्धः १


स्फुटनिर्णयसंग्रहः


अथ प्रथमोऽध्यायः

( ग्रन्थारम्भः )

नत्वा गुरून् गोलविदश्च सर्वान्
यद् अच्युतोक्तं गणितस्य तन्त्रम् ।
तद् भूतसंख्यं स्फुटनिर्णयाख्यं
वक्ष्याम्यहं व्यञ्जनरूपमद्य ॥ १ ॥

( मन्वादिप्रमाणम् )

विधेर्दिनं कल्पमुशन्ति सन्तः कल्पे सहस्राणि चतुर्युगानि ।
चतुर्दश स्युर्मनवो हि तस्मिन् युगानि तेषां ‘पृथु'सम्मितानि ॥ २ ॥

तेषां मनूनां प्रभवात् पुरस्ताच्चतुर्युगानां त्रयमप्यतीतम् ।
चतुर्दशानां च तथावसानात् परं युगानां त्रितयं भविष्यत् ॥ ३ ॥

चतुर्युगानां प्रथमः कृताख्यस्त्रेता ततो द्वापरकः कलिश्च ।
तेषां दशांशे तु चतुर्युगस्य कालं चतु-स्त्रि-द्वितयै-क-भागः ॥ ४ ॥


 Ms. : Tripunithura Jy. 568 (P).

1.On vv. 2-5, See Sphuta. 1. 10-11.