पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/64

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७
षष्ठोडध्यायः

फले दृक्क्षपदृग्गत्योर्भूग्रहान्तरताडिते ।
दृक्कर्णाप्ते क्रमात् कार्ये विक्षेपे च ग्रहस्फुटे ॥ ६ ॥

भूपृष्ठगद्रष्टुरमी स्पुटाः स्युर्दिशां विभागं वलनेन विद्यात् ।
अनुक्तमस्मिन् क्लनादिकं यच्छास्त्रान्तरात् तत्सुधियाऽवगम्यम् ॥१०॥

(ग्रन्थसमाप्तिः)

गुरुचरणसरोजध्यानशुद्धात्मनेदं
विरचितमपि तन्त्रं यन्त्रविद्भिः परीक्ष्य ।
अपि च सुभृशमेनं मानवा मानयन्तो
विगतविविधतापाः स्युर्ग्रहानुग्रहेण ॥११॥

इति स्फुटनिर्णयतन्त्रे भूपृष्ठस्फुटानयनं नाम षष्ठोऽध्यायः ॥

॥ समाप्तमिदं स्फुटनिर्णयतन्त्रम् ॥

 फले दृक्क्षेपदृग्गत्योरिति । दृग्गतिफलं भूग्रहान्तरेण निहत्य दृक्कर्णेन विभज्य आप्तं चापीकृत्य भूगोलग्रहस्फुटेषु संस्कुर्यात्, केन्द्रे तुलादौ धनम्, मेषादावृणमिति। दृक्क्षेपफलं तु भूग्रहान्तरेण निहत्य दृग्गोलकर्णेनाप्तं विक्षेपे संस्कार्यम्, दिक्साम्ये योज्यम्, दिग्भेदे विशोध्यमिति ॥९॥

 भूपृष्ठगेति। एवमानीता ग्रहाः भूपृष्टगतस्य द्रष्टुः स्पष्टा भवन्ति । किन्तु अत्र दिग्विभागोऽपि ज्ञातव्यः । स च वलनानुसारेणैव ज्ञेयः । अस्मिस्तन्त्रे यदनुक्तं वलनदर्शनसंस्कारादिकं तत् तन्त्रसंग्रहादिशास्त्रान्तराद् बुद्धिमता विज्ञेयम् । शास्त्रान्तरेष्वनतिविस्तृतस्यैव स्फुटक्रियाभागस्य अस्माभिर्विस्तरः कृत इति भावः ॥१०॥


मूलम् :- 1. G.H. दृग्गोलस्फुटानयनं

 2. The mss. read only निर्णयम्

व्याख्या :-1. A. शास्त्रे for तन्त्रे

 2. B. यदन्ते उक्तं (wr.)