पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/63

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६
स्फुटनिर्णयतन्त्रै


खषट्शरघ्न्या निजमध्यगत्या हत्वा पृथग् दृग्गतिशङ्कुसंज्ञे ।
दृक्क्षेपमप्यङ्गखगोस्वरघ्न्या' हरेत् त्रिमौर्व्या सफलानि तेषाम् ॥ ७ ॥

( दृग्गोलकर्णः )

शङ्कोः फलं भूविहगान्तराले कृत्वाऽस्य वर्गेऽन्यफलद्वयस्य ।
वर्गौ च युक्त्वा' फलमाप्यते यद् दृग्गोलकर्णः स बुधैः प्रदिष्टः ॥ ८॥


 खषट्शरध्येति । सर्वोषां ग्रहाणां मध्यगतिः षष्ट्यधिकशतपञ्चकेन (५६०) निहतो गुणकारः । त्रिज्यां ‘स्तनत्सिन्धुः? (७९०६) इत्यनेन गुणयेत् । स हारकः । दृग्गतिं गुणकारेण निहत्य हारकेण विभज्याऽप्तं दृग्गतिफलम् ॥ एवं शङ्कोः शङ्कुफलं, दृक्क्षेपाद् दृक्क्षेपफलं° चानयेत् ॥ ७ ॥

 शङ्कीः फलमिति । तेषु शङ्कुफलं भूग्रहान्तरालेs संस्कुर्यात् , केन्द्रे मृगादौ* धनम् , कर्क्यादावृणम् इति । तस्य वर्गो दृग्गतिफलस्य वर्गं दृक्क्षेप फलस्य वर्ग च संयोज्य मूलीकुर्यात् । स विद्वद्धिः वृग्गोलकर्णं इति निदिष्टः ॥ ८ ॥


मूलम् :— 1. C.D. Hapl. om. after रध्न्या in the first pada to this रच्न्या

 2. H. कृत्वा, rev. to युक्त्वा

व्याल्या :—1. B.C.E. (Hego Hanfri:

 2. A. Hapl. om. of bracketted portion i Tšoibri (gầqT दृकूक्षेपफलं)

 3. D. Hapl. om. of bracketted portion : विगहान्तराले (in text verse 8, first pada, to भूग्रहान्तसले)

 4. E, मकरादी