पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/62

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
षष्ठोऽध्यायः

( उदयलग्नम् )

लम्बाहतां कालविलग्नदोर्ज्यां दृक्क्षेपकोटया विभजेत् फलस्य ।
चापं भवेदौदयिकं विलग्नमाद्ये पदे कालविलग्नकस्य ॥ ४ ॥

तस्य द्वितीये तु पदे धनुस्तच्चक्रार्धतः शुद्धिमुशन्ति लग्नम् ।
चक्रार्धयुक्तं तु पदे तृतीये संशोधितं मण्डलतश्चतुर्थे ॥ ५ ॥

(दृग्गतिः शङ्कुश्च )

कृतायनांशाद् ग्रहतो विशोध्य त्रिभाढयलग्नं,' भुजकोटिजीवे। ।
दृक्क्षेपकोटया निहतस्त्रिमौर्व्या भक्ते क्रमाद् दृग्गति-शङ्कुसंज्ञे ॥६॥


 अथ उदयलग्नानयनमाह-लम्बाहतामित्यादि । काललग्नस्य भुजाज्यां लम्बकेन निहत्य वृक्षेपकोटया विभज्याऽप्तस्य यच्चापं तत् काललग्नस्याद्यपदगतत्वे केवलमेवोदयलग्नम् । काललग्नस्य द्वितीयपदे तु राशिषट्काद् विशोधितं तच्चापमुदयलग्नम् । तृतीयपदे राशिषट्कसहितम् । चतुर्थे पदे मण्डलाद् विशोधितं च तदुदयलग्नं भवति ॥ ४-५॥

 कृतायनांशादिति । उदयलग्नं राशित्रयेण सहितं उच्चलग्नम् । कृतायनांशाद् भूगोलग्रहस्फुटाद् उच्चलग्नं विशोध्य शिष्टं केन्द्रम् । ततो दोःकोटिज्ये आनीय तयोर्दोर्ज्या दृक्क्षेपकोटया निहत्य त्रिज्यया विभज्याऽप्ता दृग्गतिः। तथा दोःकोटिज्यामपि दृक्क्षेपकोटया निहत्य त्रिज्यया विभज्याऽप्तः शङ्कुः ॥६॥


मूलम् :- 1. C.D. त्रिभागलग्नं (wr.); F.H. त्रिमालग्न (wr.).

व्याख्या :-1. B.C.F. यत्कालं for यच्चापं

 2. Some mss. defective : B.C. स्याद्य-gap-त्वे ; D.E. स्यादप-gap स्वे ; E. स्याद्यपदत्वे

 3. B.D.E. चतुर्थपदे