( काललग्नम् )
कृतायनांशेे विदधीत सूर्ये लिप्तासुमेदं च चरं यथोक्तम् । |
अथ भूपृष्ठस्फुटानयनाय काललग्नादीनाह- कृतायनांशेति। अयनचलनांशै:* संस्कृते सूर्ये तस्मादेवानीतचरं प्राणकलान्तरं च यथोक्तं संस्कुर्यात् । उदयात्परं गतघटिकाश्च षड्गुणितास्तस्य भागेषु युञ्जयात् । तत् काललग्नम् इत्युच्यते ॥ १ ॥
लम्बाहतेत्यादि । काललग्नस्य कोटिज्यायाः क्रान्तिज्यामानीय तां लम्बकेन निहत्य व्यासार्धेनाप्तं यत्फलम् , यत्पुनः अन्त्यद्युज्याहताया अक्षज्याया त्रिज्ययाप्तं फलम् , काललग्ने मृगादिगते तयोः फलयोर्योगो दृक्क्षेपज्या। सा च दक्षिणादिक् ॥कर्क्यादिगते तयोः फलयोर्योयोगो दृक्क्षेपज्या* । सा त्वक्षफलेऽधिके दक्षिणा, कोटिक्रान्तिफलेऽधिके तूत्तरा । इन्द्वादीनां तु विक्षेपदृक्क्षेपयोरेकदिक्त्वे तयोश्चापयोगात् , भिन्नदिक्त्वे चापान्तराच्चानीता जीवा स्फुटविक्षेपः ॥ २-३ ॥
मूलम् :– 1. E. om. verses 1 and 2.
2. B.C.D.F. tągsq (wr.)
3. C.D.E. gap for Tarr ; G.H. सोम्या for थाम्या
व्याख्याः -1. A. adds eithya
2. B.C.F. दक्षिणदिक्
3. A. कक्यादौ
4. D. Hapl. om. from द्दक्क्षेपज्या above upto this द्द्क्क्षेपज्या