पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/60

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३
पञ्चमोऽध्यायः

( भूगोलगतिः )

भकेन्द्रखेटान्तरवर्गतो यत् कृत्योनिताद् बाहुफलस्य मूलम् ।
तेनाहता केन्द्रगतिर्वैिभक्ता श्रुत्यार्कगत्या सहिता' गतिः स्यात् ॥७॥

इति स्फुटनिर्णयतन्त्रे - भूगोलस्फुटानयनं नाम पञ्चमोऽध्यायः ॥


 अथ भूगोलगत्यानयनमाह-भकेन्द्रखेटान्तर इति । केन्द्रग्रहान्तरवर्गत: बाहुफलवर्ग विशोध्य शिष्टस्य यन्मूलं तेन केन्द्रगतिं ग्रहसूर्यगत्यन्तरं निहत्य कर्णेन विभज्य आप्ते सूर्यगतिं च युञ्जयात् । सा भूगोलग्रहगतिर्भवति ॥ ७ ॥

इति स्फुटनिर्णयविवृतौ भूगोलस्फुटानयनं नाम पञ्चमोऽध्यायः ॥


 मूलम् :- 1. A. Marginal note in Malayalam in the Ms. reads : ‘श्रुत्यार्कगत्या सहिता' एन्नुळळेटत्तु संशयमुण्ट् । Meaning : ‘There is some doubt in the portion srutyarkagatya sahitah.

 छयाख्या :-1 A. वर्गको


 स्फुटनिर्णयतन्त्रम्-५