पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/59

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२
स्फुटनिर्णयतन्त्रै


भकेन्द्रखेटान्तरवर्गतस्तु
त्यक्त्वा पदे कोटिफलं प्रकुर्यात् ।
तद्वर्गतो दोःफलवर्गयुक्ता-
न्मूलं श्रुतिः स्यादनया यदाप्तम्' ॥ ४ ॥

त्रिज्याहताद् दो:फलतोऽस्य चार्प
ग्रहेषु कुर्याच्छशिपूर्वकेषु ।
भूगोलगास्ते विहगस्फुटाः स्युः
छायोपरागप्रभृतौ तु योग्याः ॥ ५ ॥

( विक्षेपस्य भूगोलसंस्कारः )

क्षेपः कृतो योऽत्र तदीयवर्ग
संयोज्य कर्णस्य कृतौ पदं यत् ।
तद् भूमिखेटान्तरमेतदाप्तः
क्षेपस्त्रिजीवानिहतः' स्फुटः स्यात् ॥ ६ ॥


विभज्य आप्तस्य वर्ग केन्द्रग्रहान्तरवर्गाद् विशोध्य शिष्टस्य मूले कोटिफलं मृगकर्क्याद्योः स्वर्ण' कुर्यात् । तस्य भुजाफलस्य च वर्गैक्यमूलं कर्णः । दो:फल त्रिज्यया निहत्य कर्णेन विभज्य आप्तं चापीकृत्य इन्द्वादिग्रहेषु संस्कुर्यात् , केन्द्रे तुलादौ धनं, मेषादावृणमिति । ते मूगोलगा ग्रहस्फुटाः स्यु । ते छाया-ग्रहण-ग्रहयोगादिपूपयोगार्हा:। ३०-५ ॥

 अथ विक्षेपस्यापि भूगोलसंस्कारमाह-क्षेपेति । भूगोलविक्षेपं केन्द्रग्रहान्तरेण निहत्य त्रिज्यया विभज्य आप्तो मध्यमविक्षेपः । तस्य वर्ग कर्णवर्गे संयोज्य मूलीकृतं भूमिग्रहान्तरम् । मध्यमविक्षेपं' त्रिज्यया निहत्य भूमिग्रहान्तरेण विभज्य आप्तो भूगोलविक्षेपो भवति ॥ ६ ॥


मूलम् :— 1. C. D.F. स्यादयनादवाप्तम् (wt.)

 2. B. त्रिमौव्य निहतः

व्याख्या :-1. A. स्वमूणं for स्वर्णं

 2. A. मध्यविक्षेप:

 3. A. मध्यविक्षेभं