पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/58

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अथ पञ्चमोऽध्यायः


( ग्रहाणा भूगोलस्फुटानयनम् )


इन्दूच्चसूर्यान्तरकोटिजीवां सन्ताडयित्वा निजमध्यगत्या ।
अङ्गेशनागेषुधराभिराप्तं अन्त्यं फलं स्याद् रविपूर्वकाणाम् ॥१॥

इन्दूच्च'भान्वोर्विवरे मृगादावर्कस्फुटं तत्र तु कर्कटादौ ।
चक्रार्धयुक्तं च, रविग्रहेभ्यो विशोध्य शिष्टं प्रवदन्ति केन्द्रम् ॥ २ ॥

दोःकोटिजीवे च नयेत् ततोऽन्त्य-
फलाहते ते विभजेत् त्रिमौर्व्या ।
भकेन्द्रखेटान्तरताडितो यः
क्षेपस्त्रिमौर्व्यां विहृतोऽस्य वर्गः ॥ ३ ॥


 अथ इन्द्वादीना भूगोलस्फुटानयनमारभते-इन्दूच्चसूर्यान्तरेति । सूर्यस्य स्फुटादिन्दूच्चं विशोध्य शिष्टस्य कोटिज्यां स्वस्वमध्यगत्या निहित्य 'तपस्यन् देशिकः' ( १५८,११६) इत्यनेन विभज्य लब्धं सूर्यादीनाम् अन्त्यफलं भवति ॥ १ ॥

 इन्दूच्चभान्वोरिति । इन्दूच्चरहितसूर्यो मृगादिगते सूर्यस्य स्फुट एवोच्चः । कर्क्यादिगते तु चक्रार्धसहितसूर्यस्फुट उच्चः । इन्द्वादिग्रहेभ्यः उच्चं विशोध्य शिष्टं केन्द्रम् । ततो दोःकोटिज्ये आनीय ते द्वे अन्त्यफलेन निहत्य त्रिज्ययाऽऽप्ते दोःकोटिफले भवतः ॥ २-३b ॥

 भकेन्द्रखेटान्तर इत्यादि । विक्षेपं भगोलग्रहान्तरेण निहत्य त्रिज्यया


 मूलम्:- 1. D.E. add here Heat (wr.)

 व्याक्ष्या :- 1. A. adds here of