पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/57

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०
स्फुटनिर्णयतन्त्रे


(शीघ्रस्फुटे मतान्तरम् )

येषां मते भवति शैघ्रवृतेर्दलस्य
वृद्धिः क्षयश्च मृदुकर्णविपर्ययेण ॥
तेषां मृदुश्रुतिपदे मृदुकर्णयुक्त-
त्रिज्यादलं किल मतं परिधिस्फुटार्थम् ॥ १६ ॥

इति स्फुटनिर्णयतन्त्रे भगोलस्फुटानयनं नाम चतुर्थोऽध्यायः ॥

 'ग्रथ 'शैघ्रस्फुटे विवक्षांन्तरमाह-येषां मते इति । येषामाचार्याणां मते शैघ्रपरिधेरर्धस्य मान्दकर्णविपर्यंयेण वृद्धिक्षयौ भवतः, तेषां मते परिधिभागस्फुटार्थं मान्दकर्णेन यत्कर्मोक्तं तन्मन्दकर्ण°युक्त*त्रिज्यार्धेन कर्तव्मम् । अन्यत् तुल्यमेव ॥ १६ ॥

इति स्फुटनिर्णयविवृतौ भगोलस्फुटानयनं नाम चतुर्थोऽध्यायः ॥


हयास्या :- 1. B. om. Betto भागस्फुटार्थम्, two lines below.

 2. D. Hapl. om. from शैघ्न to शैघ्न in the next line.

 3. D.E. मान्दकर्ण

 4. D. om. युक्त