पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/56

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६
चतुर्थोऽध्यायः

(विक्षेपस्फुटप्रक्रिया )

क्षेपादन्त्यफलाहतात् तु विहृतो विक्षेपकोटया शरस्
तद्वर्गश्रुतिवर्गयोर्युतिपदं विक्षेपहारो भवेत् ।
व्यासार्धघ्नशराद्धरेण विहृतः क्षेपो भगोलोपगो
बाणस्यान्त्यफलस्य वर्गयुतितो मूलं तु कर्णोऽल्पकः ॥ १४ ॥

( केन्द्रग्रहान्तरम्)

केन्द्रग्रहान्तरमिनोडुपयोः स्वकर्णो
विक्षेपहारनिहतान्मृदुकर्णतस्तु ।
त्रिज्योद्धृतं कुजसुरेडयशनैश्चराणां
तत् स्वल्पकर्णविहृतं बुधशुक्रयोः स्यात् ॥ १५ ॥


 अथ विक्षेपस्फुटप्रक्रियामाह-क्षेपादन्त्यफलाहतादिति। मन्दस्फुटविक्षेपम् अन्त्यफलेन निहत्य विक्षेपकोटया विभज्याऽप्तः शरो नाम । शरस्य लैघ्रकर्णस्य च वर्गयोगमूल विक्षेपहारकर्णः । शरं त्रिज्यया निहत्य विक्षेपहारकर्णेन विभज्याऽप्तः भगोलविक्षेपः । अन्त्यफलशरयोर्वर्गयोगमूलं' स्वल्पकर्णों नाम ॥ १४ ॥

 अथ केन्द्रग्रहान्तरानयनमाह— केन्द्रग्रहान्तरमिति । रविचन्द्रयोः स्फुटमान्दकर्ण एव भगोलकेन्द्रग्रहान्तरमित्युच्यते । *कुजजीवमन्दानां तु विक्षेपहारकर्णेन निहितात् मान्दकर्णात्, त्रिज्ययाप्तं केन्द्रग्रहान्तरम् । बुधशुक्रयोस्तु विक्षेपहारनिहतात् मान्दकर्णात् स्वल्पकर्णेनाप्तं केन्द्रग्रहान्तरं स्यात् ॥ १५ ॥


व्याम्या :—1. B. Hapl om. after if in the last line to this मूलम् ।

 2. A. The rest of the com. of the verse differs : मृदुकर्ण त्रिज्यया निहत्य त्रिज्यया हृत कुजजीवमन्दानां केन्द्रग्रहान्तरम्। मृदुकर्णविक्षेपहारघातात् स्वल्पकर्णेनाप्तं बुधशुक्रयोः केन्द्रग्रहान्तरं स्यात् ।