पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/55

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५
स्फुटनिर्णयतन्धे


तत्कोटिमौर्व्या स्वमृर्ण च कुर्यात् क्रमेण केन्द्रे मृगकर्कटादो।
तस्याः कृतौ बाहुगुणस्य वर्ग क्षिप्त्वा पदं स्यादिह शैघ्रकर्णः ॥११॥

व्यासार्धघ्नाद् दोर्गुणात् कर्णभक्तं स्वर्णे चापीकृत्य मन्दस्फुटे स्वे।
केन्द्रे युग्मायुक्पदे कर्कटादौ योज्यं चक्रार्धे च' शैघ्रस्फुटः स्यात् ॥१२॥

( बुधशुक्रयोर्गतिः )

हत्वार्कमध्यमनिजस्फुटमेदकोटया
केन्द्रस्य भुक्तिममुतः श्रुतिलब्धहीना ।
शुक्रज्ञयोर्मृदुगतिः स्फुटतामुपैति
शोध्येऽधिके भवति वक्रगतिः समेषाम् ॥ १३ ॥

 तत्कोटिमौर्व्यामिति। केन्दे मृगकर्कटादी क्रमेण अन्त्यफलं कोटिज्यायां घनमृणं च कुर्यात् । तद्वर्गे दोर्ज्यावर्गं क्षिप्त्वा मूलीकृत्य शैध्रकर्णः ॥ ११ ॥

 व्यासार्घघ्नादिति । दोर्ज्यां व्यासार्धेन निहित्य शीघ्रकर्णेन' विभज्य लब्ध चापीकृत्य स्वमन्दस्फुटे संस्कुर्यात्। केन्द्रे युग्मपदगे धनं, ओजपदगे ऋणमिति । केन्द्रे कर्क्यादिगते राशिषट्कं च योज्यम् । स बुधशुक्रयोर्भगोलस्फुटो भवति ॥ १२ ॥

 अथ अनयोर्गत्यानयनमाह-हत्वार्कमध्यम इति । अर्कमध्यमस्य स्वशैघ्रस्फुटस्य चान्तरं कृत्वा तस्य कोटया जीवामानीय तया केन्द्रभुक्तिं निहत्य कर्णन विभज्याऽप्तं मन्दगतेविंशोधयेत् । शिष्टा स्फुटगतिर्भवति । शोध्येऽधिके तु सर्वेषां ग्रहाणां* वक्रगतिर्भवति ॥ १३ ॥


मूलम् - 1.A.B.C.E. भवतः

 2. A. स्वम्

 3. B.C.D.F. चत्र्कार्धे तु


व्यारुया 1. C.D.F. शैघ्रकर्णे न

 2. A. om. ग्रहाणां