पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/54

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७
चतुर्थोडध्यायः


( विक्षेपस्फुटः )

विक्षेपवर्गान्वितकर्णवर्गान्मूलं श्रुतिः क्षेपहराभिधाना ।
त्तेपस्त्रिमौर्व्या निहतोऽनयाप्तः स्पष्टो भगोले कुजपूर्वकाणाम् ॥७॥

( शीघ्रगतिः )

कर्णस्य बाहोश्च फलस्य कृत्योर्विश्लेषमूलं गतिहारकाख्यम्।
तेनोद्धृतं बाहुफलस्य वर्गात् स्वर्णाह्वये कोटिफले धनर्णम् ॥ ८ ॥

तेनाहता केन्द्रगतिर्हंराप्ता स्वमान्दभुक्तौ मकरादिकेन्द्रे ।
कोटीफलाद् वर्गफलेऽधिकेऽल्पे स्वर्णं क्रमात्स्यादिह कर्कटादौ ॥ ९ ॥

( बुधशुक्रयोः स्फुटः )

ज्ञशुक्रयोस्तु स्फुटवृत्तभागान् विक्षेपकोटीमृदुकर्णनिध्नान् ।
अशीतिनिघ्न्या विभजेत् त्रिमौर्व्या लब्धं भवेदन्त्यफलाभिधानम् ॥१०॥


 अथ विक्षेपस्यापि भगोलस्फुटक्रियामाह—विक्षेपवर्गान्वितेति । विक्षेपवर्ग शैघ्रकर्णवर्गेन संयोज्य मूलीकुर्यात्। स विक्षेपहारकर्णः। विक्षेपं त्रिज्यया निहत्य विक्षेपहारकर्णेन विभज्य लब्धाः कुजजीवमन्दानां भगोलविक्षेपाः ॥ ७ ॥

 अथ एषां शैघ्रगत्यानयनमाह-कर्णस्य बाहोश्चेत्यादि । शैघ्रकर्णस्य वर्गात् भुजाफलवर्ग विशोध्य शिष्टस्य मूलं गतिहारको नाम । भुजाफलवर्गं गतिहारकेण हृत्वाऽऽप्तं मकरादौ कोटिफलेन संयोजयेत् । कर्क्यादौ' विश्लेषयेत् । तेन केन्द्रगतिं निहत्य गतिहारेणाप्तं मन्दभुक्तौ संस्कुर्यात् । केन्द्रे मृगादिगे धनम् । कर्क्यादिगे तु कोटीफलाद् वर्गफलेऽधिके धनम् , अल्पके त्वृणम्। मान्दगते: शोध्यफलेऽधिके वक्रगतिः ॥ ८-९॥

 अथ बुधशुक्रयोः स्फुटप्रकारमाह-ज्ञशुक्रयोरिति । बुधशुक्रयोरपि प्राग्वच्छीघ्रकेन्द्रात् भुजाकोटिज्ये तत्कालपरिधीश्चानीय परिध्यंशान् विक्षेपकोटया निहित्य, मान्दकणेंन निहित्य अशीतिहतया त्रिज्यया विभजेत् । लब्धं अन्त्यफलं नाम ॥ १० ॥


व्याख्या :–1. A.B. कर्कटादो

 2. All mss. read only परिध्यंशो