पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/53

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६
स्फुटनिर्णयतन्त्रै


( ग्रहाणां भगोलस्फुटः )

मन्दस्फुटेभ्यः कुजपूर्वकाणां शीघ्रोच्चसंज्ञं मिहिरस्य मध्यम् ।
विशोध्य शिष्टं चलकेन्द्रमस्माद् दोःकोटिजीवे च नयेत् पुरोवतू॥३॥

तात्कालिकान् वृत्तलवान् कुजेडयशनैश्चराणा निहर्तास्त्रिमौव्र्या ।
मान्देन' कर्णेन हरेन् फलघ्न्यौ दोःकोटिजीवे,' विभजेत् खनागैः ॥४॥

विक्षेपकोटिरिह कोटिफलाढयहीना केन्द्रे क्रमेण मृगकर्कटकादिगे या।
तद्वर्गबाहुफलवर्गसमासमूलं कर्णों हरस्त्रिभगुणाहतदो:फलस्य ॥ ५ ॥

लब्धस्य चापं स्वमृदुस्फुटेषु स्वर्णं तुलाजादिगते तु केन्द्रे ।
शैघ्राः स्फुटास्ते तु भगोलगाः स्युस्तिथ्यृक्षहोराद्युपयोगयोग्याः ॥६॥


 अथ भौमादीनां भगोलस्फुटसिद्धयर्थं शैघ्रं कर्माऽह-मन्दस्फूटेभ्य इति । कुजादीनां मन्दस्फुटेभ्यः शीघ्रोच्चसंज्ञं रविमध्यमं विशोध्य शिष्टं शीघ्रकेन्द्रमाहु:। तस्माद् दोर्ज्यां कोटिज्यां च पूर्ववदानयेत् ॥ ३ ॥

 तात्कालिकानिति । शीघ्रदोर्ज्याँ युग्मौजान्तवृत्तान्तरेण हत्वा त्रिज्यया विभज्य लब्धं युग्मान्तपरिधिभ्यो विशोध्य शिष्टाः तत् कालपरिध्यंशाः ॥ तैस्त्रिज्यां निहत्य स्फुटमन्दकर्णेन हृत्वा तत्फलेन दो:कोटिज्ये निहत्य अशीत्या विभज्याप्ते दो:कोटिफले भवतः ॥ ४ ॥

 विक्षेपकोटिरिति । केन्द्रे मृगकर्कटकादिगेति क्रमेण कोटिफलं विक्षेपकोटयां धनमृणं च कृत्वा वर्गीकृत्य भुजाफलवर्गेण संयोज्य मूलीकुर्यात्। स शैघ्रकर्णः । भुजाफलं त्रिज्यया निहित्य शैघ्रकर्णेन विभज्य लब्धस्य चापं कुजादीनां मन्दस्फुटेषु संस्कुर्यात् , केन्द्रे तुलादौ धनम् , मेषादावृणमिति । ते शैघ्राः स्फुटाः भगोलस्फुटा इत्युच्यन्ते । ते च तिथिनक्षत्रजातकफलादिषु उपयोगमर्हन्ति ॥ ५-६ ॥


मूलम् :- 1. F. मन्देन   2. E. दो: क्रान्तिजीवे (wr.)

व्यारुया :-1. A भुजाज्यां

 2. D. Unindicated om. of शौन्नदोर्ज्या युग्मौ

 3. B.C.D. Hapl. om. after the word निहत्ये in the last line up to this निहत्य.