पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/52

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अथ चतुर्थोऽध्यायः


( विक्षेपः )

पातोनमन्दस्फुटदोर्गुणेभ्यः क्षेपैर्यथास्वं परमैर्हतेभ्यः ।
लब्धास्त्रिमौर्व्या मृदुवृत्तगाः स्युः क्षेपा भगोलेऽपि स एव हीन्दोः ॥१॥

( चन्द्रस्फुटः )

पातोनस्य विधोस्तु कोटिभुजयोर्जीवे मिथस्ताडयेद्
अन्त्यक्षेपशराहतं वधमर्मु विक्षेपकोटया हरेत् ।
लब्धाद् व्यासदलोद्धृतं हिमकरे स्वर्णं विपाते विधौ
युग्मायुग्मपदोपगे विधुरयं स्पष्टो भगोले भवेत् ॥ २ ॥


 अथ इन्द्वादीनां "भगोलस्फुटं वक्ष्यन् प्रथमं विक्षेपानयनमाह-पातोनेति। स्वस्वपातोनानां मन्दस्फुटानां भुजाज्या: स्वस्वपरमक्षेपैनिहत्य त्रिज्यया विभज्य लब्धा मान्द'वृत्तगता विक्षेपा भवन्ति । इन्दोस्तु भगोलेऽपि स एव विक्षेपः, शीघ्रोच्चनीचवृत्ताभावेन राशिवृत्तविक्षेप'वृत्तयोरेकगोलगतत्वात् ॥१॥

 अथेन्दोः स्फुटसंस्कारमाह-पातोनस्य विधोरिति । स्वपातोनस्य विधोः भुजाकोटयोर्जीवे आनीय तयोरेकामन्यया निहित्य अन्त्यविक्षेपबाणेन च हत्वा 'इष्टविक्षेपकोटघा विभजेत् । लब्धं फलं त्रिज्यया च विभज्याप्तं लिप्तादिक फलं मन्दस्फुटेन्दौ संस्कार्यम् । पातोनेन्दौ युग्मपदगते *धनम्, अयुग्मपदगते त्वृणमिति । स चन्द्रो भगोले स्फुटो भवति ॥ अत्र युक्तिः प्राणकलान्तरयुवत्यनुसारिणी ॥ २ ॥


व्याल्या :- 1. B.C.D. om. भ   2. B. om. मन्दस्फुटानां

 3. E. परमविक्षेपैः   4. B. om. मान्द

 5. A. भावेन for विक्षेप   6. B.C.D. om. इष्ट

 7. E. om... फलं

 8. D. om. धनं to स्फुटो in the next line.

स्फुटनिर्णयतन्त्रम्-४