( प्राणकलान्तरसंस्कारः )
लिप्तासुभेदे युगयुक्पदेऽर्केंस्वर्ण रवेर्बाहुफलं पुरोवत्। |
मन्दस्फुटानां गतिभिर्यथास्वं हत्वा विभज्याभ्रखषट्समिद्धिः । |
इति स्फुटनिर्णयतन्त्रे मन्दस्फुटानयनं नाम तृतीयोऽध्यायः ॥
इति । तस्मात् प्रमाणेन गुणनम्, इच्छया हरणं च कर्तव्यम् । तत्प्रकारः-उदयादूर्ध्वं दिनपञ्चमांशके गते सति चरं द्विगुणीकृत्य पञ्चभिविभज्य लब्धं केवलचराद्विशोध्य शिष्टं उदयोक्तवत् संस्कार्यं भवति ॥ एवमन्यत्राप्यूह्यम् ॥ यत्र तु उदयास्तमयादिभ्यो नाडिकादिभ्यश्वाल्यते तत्र अनुपातो न कार्य:। कृत्स्नस्यापि चरस्य उदयास्तमयादि कल्पितावधि प्रोक्तवत् संस्कार एव कार्य: ॥ २७ ॥
अथ प्राणकलान्तरस्य धनर्णप्रकारं एभिर्मन्दस्फुटानां संस्कारं चाह-लिप्तासुभेद इति । कृतायनेऽर्के युग्मपदगते प्राणकलान्तरं धनम्, ओजपदगते ऋणम् । रविभुजाफलस्य तु पूर्वोक्तवदेव धनर्णप्राकरः । श्रप्रथ चरप्राणकलान्तरभुजाफलानां धनर्णसाम्ये त्रयाणां योगः कार्यः । एकस्य भेदे सति इतरयोर्योगाद् भिन्नं विशोधयेत्।
पुनस्तं योगमन्तरं वां स्वस्वमन्दस्फुटगत्या निहत्य' 'अनन्तपुरेण (२१,६००) हत्वा लब्धं लिप्ताद्यं फलं सूर्यादीनां मन्दस्फुटेषु 'संस्कुर्यात् । ते स्वदेशस्फुटार्कोदयावधिका: स्युरिति। २८-२९ ॥
इति स्फुटनिर्णयविवृतो मन्दस्फुटानयनं नाम तृतीयोऽध्यायः ॥
व्याख्या :-1. A.E.पञ्चांशके.
2. A० उदयादिभ्यो
3. A. हवा
4. CD, om सं