पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/50

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
तृतीयोऽध्यायः

(प्रक्षलम्बको)

विषुवदिनमध्यभाकृतिः स-कृतेन्द्रा पदिता पलश्रुतिः ।
पलभाहतविस्तरार्धतः पलकर्णेन हताक्षमौर्विका ॥२५॥

त्रिघ्नाक्षज्याखाभ्रनेत्रांशहीनान् गोऽभ्रश्रोत्रानक्षकर्णेन हृत्वा ।
लब्धेनाढया स्पष्टतामक्षमौर्वी गच्छेदस्याः कोटिका लम्बकाख्या ॥२६॥

(चरः)

क्रान्तिज्याक्षहताऽवलम्बकहता त्रिज्याहता धुज्यया
भाज्या लब्धधनुश्चरं, धनमृणं भानौ तुलाजादिगे ।
व्यस्तं त्वस्तमये, न तद्दिननिशोमध्येऽथ पञ्चाशक-
त्र्यंशादावनुपाततो न तु घटीचाल्येऽनुपातो मतः ॥ २७ ॥


 अथ चरानयनाथं अक्षलम्बकानयनमाह-विषवाहिनेति । विषुवदिनमध्याह्नच्छायावर्ग। द्वादशानां वर्गभूते 'भावके' (१४४) संयोज्य मूलाकुर्यात् । पलच्छायाहतं व्यासार्धं पलकर्णन विभज्य लब्धाक्षज्या प्रायिकी ॥ २५॥

 त्रिघ्नाक्षज्येति। तामक्षज्यां पृथग् विन्यस्य त्रिभिः संगुण्य शतद्वयेन विभज्य लब्धं 'धनेन्द्रा'द् (२०९) विशोध्य शिष्टम् अक्षकर्णेन हृत्वा लब्धं फलम् अक्षज्यायां योजयेत् । साऽक्षज्या स्पष्टा भवति । तस्याः कोटिर्लम्बक इत्युच्यते ॥२६॥

 अथ चरानयनं तद्धनर्णप्रकारं चाह-क्रान्तिज्याक्षहतेति। क्रान्तिज्याम् अक्षज्यया निहत्य लम्बकेन हृत्वाऽऽप्तं त्रिज्यया निहत्य युज्यया विभज्य लब्धस्य चापं चरमित्युच्यते । तत्तु सूर्योदये भानौ तुलाजादिगते क्रमाद् धनमृणं च भवति । अस्तमये तु विपरीतम् । दिनस्य मध्ये निशाया मध्ये च चरसंस्कारो न कार्यः । दिनस्य निशायाः पञ्चांशकन्यंशषष्ठांशादी अनुपाततः त्रैराशिकं कार्यम् । तच्च व्यस्तत्रैराशिकम्, दित्रिपञ्चादीनां भागहारत्वात् । उक्तं च भास्करेण--

जीवानां वयसो मौल्ये तौल्ये वर्णस्य हैमने।
भागहारे च राशीनां व्यस्तत्रैराशिक भवेत् ॥

(लीलावती, प्रथमखण्डः, त्रैराशिकादि ३)
 

व्याख्या :- 1. C.D. common om. of the following bracketted portion : विस्तरा [र्धतः, in text verse 25, to च्छायावर्ग in com.] द्वादश ; F. छायाया वर्ग