पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/49

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२
स्फुटनिर्णयतन्त्रे


राशेराद्यस्याथ भागेषु युञ्ज्याद्
दिग्भागोनानंशका'न्मध्यराशेः ।
पञ्चांशोनानन्त्यराशेश्च भागान्
रामाप्तास्ते चायनांशाह्वयाः स्युः ॥ २२ ॥

( क्रान्तिद्युज्या )

कृतायनांशस्य रवेर्भुजाज्या गजाङ्कविश्वैर्निहता त्रिमौर्व्या ।
विभाजिता क्रान्तिगुणोऽस्य कोटिद्युमौर्विकोक्ता दिननायकस्य ॥२३॥


( प्राणकलान्तरमु)

दोर्ज्येंयमन्त्यद्युगुणेन हत्वा विभाजितेष्टद्यगुणेन भानोः ।
चापीकृता बाहुगुणस्य चापाद् विशोधितं' प्राणकलान्तरं स्यात् ॥२४॥


दशभागोनान् कृत्वा योजयेत् । तथा तृतीयराशेर्भागान् पञ्चांशोनान् कृत्वा तेष्वेव योजयेत् । पुनस्तान् संयुक्तान् भागान् त्रिभिर्विभज्य लब्धा भागादयो अयनांशा इत्युच्यते ॥ २१-२२ ॥

 अथ क्रान्तिद्युज्यानयनमाह-कृतायनांशस्येति । अयनांशैः संस्कृत्य सूर्यस्य भुजाज्यामानीय तां 'दुग्धलोके’न (१३९८) निहित्य त्रिज्यया हृत्वाप्ता” रवे: क्रान्तिज्या नाम । तस्याः कोटिर्युज्या नाम ॥ २३ ॥

 अथ प्राणकलान्तरानयनमाह-दोर्ज्येयमिति । कृतायनांशस्य रवेः दोर्ज्याम् अन्त्यद्युगुणेन परमापक्रमकोटया हत्वा इष्टापक्रमकोटया विभज्य लब्धस्य ' चापं कृतायनार्कबाहुचापाद् विशोध्य शिष्टं प्राणकलान्तरं नाम ॥ २४ ॥


मूलम् :- 1. C.D. भागोनार्दशका (wr.)

 2. A.C.D. शोनादन्त्य (wr.)

 3. C. भागात् (wr.)

 4. C.D.विशीषिता

व्याख्या :-1. E. विभज्य for निहत्य (wr.)

 2. E. हता: (wr.) 3. E.

 3. E.कोटिज्या नाम (wr.)

 4. A. बाहुफलान्