पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/48

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१
तृतीयोडध्यायः

(मन्दस्फुटगतिः )

कृतकोटिफलं त्रिजीवया विहृतं दोःफलवर्गतस्तु यत् ।
मृगकर्कटकादिकेऽमुना युतहीनं फलमत्र कोटिजम् ॥ १९ ॥

दिनकेन्द्रगतिध्नमुद्धरेत् कृतकोटीफल'या त्रिजीवया ।
फलपूर्वफलैक्यतो दलं दिनभुक्तेरपि संस्कृतिर्भेवेत् ॥ २० ॥

( अयनचलनम् )

आयनस्य चलनस्य पर्यया लक्षषट्कमथ तस्य मध्यमात्।
बाहुचापमिह भागितं पृथग् राशिभेदवशतस्त्रिधा न्यसेत् ॥२१॥


 अथ गत्यानयने विशेषमाह- कृतकोटिफलं त्रिजीवयेति द्वाभ्यां श्लोकाभ्याम् । केन्द्रे मृगकर्कटादौ कोटिफलं त्रिज्यायां घनमृणं च कृत्वा तया दो:फलवर्ग हृत्वा लब्धं कोटिफले संस्कूर्यात् । केन्द्रे मृगादिगे' घनम्, कर्कयादिगे” ऋणमिति । पुनस्तत्कोटिफलं दिनकेन्द्रगत्या हत्वा कोटिफलसंस्कृतया त्रिज्यया विभज्य यल्लब्धं° तस्मिन् 'कोटिफलाहतकेद्रगते: (श्लो० ३.१४ ) इत्यादिन्यायेनानीतं फलं संयोज्य अर्धीकृतं दिनभुक्तौ संस्कुर्यात् । केन्द्रे कर्क्यादिगे' धनम्, मृगादिगे” ऋणमिति । सा मन्दस्फुटगतिर्भवति ॥ १९-२० ॥ "

 अथैवमानीतानां मन्दस्फुटानां मध्यसावनसिद्धत्वात् स्फुटसावनसिद्धये संस्कारान्तरं कार्यम् । तदर्थं प्रथमं अयनचलनानयनमाह-आयनस्येति । अयनचलनस्य कल्पभगणाः लक्षषट्कमिताः । तस्य मध्यमं यथोक्तमानयेत् । तद्यथा-कल्यब्देभ्यो ‘नानारथेना'प्ता ( ७२०० ) गतभगणाः । शिष्टाद् ‘अनन्ते°न° (६००) आप्ता राशयः । शिष्टा'न्नखै'(२०)राप्ता भागाः । शिष्टं त्रिगुणितं लिप्ताः । अथातो मध्यमाद् भुजामानीय भुजराशीन् पृथक् पृथग् भागीकृत्य विन्यसेत् । तत्र आद्यस्य राशेः केवलेषु भागेषु, द्वितीयस्य राशेर्भागान्


मूलम्:- 1. C.D. om. फल   2. C.D. indicate an extra gap.

डयड्या :- 1 A. मकरादिके  2. As ककयदिके

 3. B.D. om. यत् in यल्लब्धं  4. A. कर्कटकादिगे

 5. A. मकरदिगे   6. B.C. अन्तेन (wr.)