पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/47

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०
स्फुटनिर्णयतन्त्रे


( मन्दस्फुटे पक्षान्तरम् )

कृत्स्नस्य मान्दापरिघेर्निजकर्णतल्यौ
वृद्धिक्षयाविति मते कथितः क्रमोऽयम् ।
अर्धस्य मान्दपरिधेः क्षयवृद्विपक्षे
युक्तं क्रियाक्रममथ प्रतिपादयामः ॥ १६ ॥

क्रमेण केन्द्रे मृगकर्कटादौ कोटीफलं व्यासदले धनर्णम्।
कृत्वास्य बाहोश्च फलस्य वर्गौ युक्त्वा पदं प्रायिकमन्दकर्णः ॥ १७॥

पूर्वोक्तकर्णेन समन्वितस्य तस्यार्धमत्र स्फुटमान्दकर्णः' ।
त्रिज्याघ्नकर्णोंदृष्धृतदोःफलेन युक्त्वाऽधिंर्त' बाहुफलं स्फुटं स्यात्'॥१८॥


 अथ अस्यां मान्दस्फुटप्रक्रियायाँ पक्षान्तरमाह-कृत्स्नस्येति। कृत्स्नस्य मान्दपरिधे: मन्दनीचोच्चवृत्तस्य मान्दकर्णानुसारेण वृद्धिक्षयौ भवत इति केचिदाचार्या मन्यन्ते । तेषां मते अयं क्रियाक्रम उक्तः । अन्ये तु मुञ्जालकादयः मान्दपरिघेरर्धस्यैव निजकर्णतुल्यौ वृद्धिक्षयाविति मन्यन्ते । तेषां मते युक्तं क्रियाक्रमम् अथः प्रतिपादयामः ॥ १६ ॥

 तत: प्रथम कर्णानयनमाह-क्रमेणेति द्वाभ्यां श्लोकाभ्याम् । केन्द्र मृगकर्कटादौ कोटिफलं क्रमेण व्यासार्धे घनमृणं च कृत्वा तस्य बाहुफलस्य च वर्गेक्यमूलं प्रायिको मन्दकर्णः । पुनः ‘कोटीफलं दोःफलकोटिकायाम्' (श्लो० ३. १५) इत्यादिपूर्वोक्तप्रकारेण च कर्णमानयेत् । तयोः कर्णयोर्योंगार्धम् अत्र पक्षे स्फुटमान्दकर्णों भवति । तदा दो:फलमपि त्रिज्यया निहत्य स्फुटमान्दकणेंनोद्धृत्य लब्धं चापीकृत्य केवलदो:फलचापे *[संlयोज्याऽधींकृतं स्फुटबाहुफलं भवति। तत्संस्कृता मन्दस्फुटा भवन्ति॥ १८ ॥


मूलम् :- 1. A.C.D.E. मन्द

 2. A. मन्दकर्णः

 3. A.B.C.D. युक्तोधितं

 4. A. बाहुगुणः स्फुटः स्यात्

व्याम्या :-1. A.C.D.F. अनन्तरं for अथ

  2. E. om. तदा

  3. The mss. read only योज्य