पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/46

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६
तृतीयोडध्याय:


मध्ये कुर्याद् दोःफलस्याथ, चापं
सूर्यादीनां ते तु मन्दस्फुटाः स्युः ।
सूर्यस्यायं राशिगोलस्फुटः स्याद्
इन्द्वादीनां क्षेपवृत्तस्फुटोऽयम् ॥ १३ ॥

(मन्दस्फुटगतिः )

कोटिफलाहतकेन्द्रगतेर्यद् दो:फलकोटिकयाप्तमनेन ।
हीनयुता मृगकर्कटकाद्योर्मध्यगतिर्भवति स्फुटभुक्तिः ॥ १४ ॥

( मन्दकर्णः )

कोटीफलं दो फलकोटिकायां स्वर्णक्रमात् कर्किमृगादिकेन्द्रे।
कृत्वामुया व्यासदलस्य वर्ग हृत्वा यदाप्तं सतु मान्दकर्णः ॥ १५ ॥


 अथ दो:फलस्य संस्कारमाह- मध्ये कुर्यादिति। चापीकृत दो:फलं स्वस्वमध्यमे संस्कुर्यात् । ते सूर्यादीनां मन्दस्फुटाः स्युः ।। सूर्यस्य अयं मन्दस्फुट एव राशिगोलस्फुटः स्यात् । इन्द्वादीनां तु अयं विक्षेपवृत्तगतस्फुट एव । ततो भूगोलस्फुटार्थं यत्नान्तरं 1कार्यमित्यर्थः ॥ १३ ॥

 अथ गत्यानयनमाह-कोटिफल इति । कोटिफलेन हतायाः केन्द्रगतेर्दों:फलकोटिकया दो:फलत्रिज्ययोर्वर्गान्तरमूलेन यदाप्तं तन्मध्यगतो संस्कार्यम् । केन्द्रे मकरादिके शोध्यम्, कर्क्यादिके* योज्यमिति । सा मन्दस्फुटगतिर्भवति॥ १४॥

 कर्णानयनमाह-कोटीफलेति। केन्द्र कर्क्यादिके कोटिफलं दो फलकोटिकायां कर्क्यादिके योज्यम्, मृगादिके शोध्यम् । एवं कोटिफलसंस्कृतया दो:फलकोटया व्यासार्धवर्गं हृत्वा यदाप्तं स मान्दकर्णः ॥ १५ ॥


मूलम् :- 1. A. फलस्यापि

व्याख्या :-1. E. om. from From to कर्किमृगादिकेन्द्रे (com, on verse 15, below).

 2. A.E. कर्कटकादिगे

 3. A. C. कर्क्यादिगे