पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/45

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५
स्फुटनिर्णयतन्त्रे


शिष्टेन शोध्यानिजकोटियोगा-
दाप्तो हरो, व्यासमनेन हृत्वा ॥ ९ ॥
लब्धं क्षिपेच्छोधितमौर्विंकायाः
संख्याघ्नतत्त्वाश्विषु तद्धनुः स्यात् ।
दोःकोटिजीवे मृदुवृत्तभागै
र्हते खतर्काग्निहुते फले स्तः ॥ १० ॥

स्वल्पचापघनषष्ठभागतो विस्तरार्धकृतिभक्तवर्जितम् ।
स्वल्पचापमिह शिञ्जिनी भवेत् तद्युतोऽल्पकगुणोऽसकृद् धनुः ॥११॥
भुजाफलं मेषतुलादियाते केन्दे क्रमेणाहुर्ऋणं धनं च ।
प्रायेण केन्द्रे मृगकर्कटादौ कोटीफलस्यापि धनर्णता स्यात्॥१२॥


इत्यादिनोक्तः । चापार्हमौर्व्या वर्गं व्यासार्धवर्गाद् विशोध्य शिष्टस्य मूलं . तस्याः स्वकोटिरित्यर्थ: । अथ यावती पठितज्या शोध्या तां विशोध्य शिष्टेन शोध्यान्निजकोटिज्ययोर्योंगादाप्तो हारः । हारेण व्यासं हृत्वा लब्धं शोधितज्यासंख्याहतेषु 'तत्वाश्वि’षु (२२५) क्षिपेत् । तच्चापं स्यात् ।

 अथ दो:कोटिज्याभ्यां तत्फलानयनमाह-दो:कोटिरिति । केन्द्रस्य दोःकोटिज्ये मृदुवृत्तभागैः 'सार्धा विश्वे'त्यादि (श्लो० १.१२) पठितैर्मान्दवृत्तांशकैर्निहत्य षष्टयुत्तरशतत्रयेण विभज्य लब्धे भुजाकोटिफले भवतः ॥ १० ॥

 अथ ज्याचापानयने विशेषमाह- स्वल्पचापेति । स्वल्पचापं घनीकृत्य तस्य षष्ठांशाद् व्यासार्धवर्गेणाप्तं फलं स्वल्पचापाद् विशोध्य' शिष्टा ज्या भवति । तथा स्वल्पज्याघनषष्ठांशाद् विस्तरार्धकृतिभक्तसहिता स्वल्पज्या धनुर्भवति । पुनस्तस्य धनुषोऽपि धनषष्ठांशाद् व्यासार्धवर्गाप्तसहिता स्वल्पज्या धनुर्भवतीति ॥ ११ ॥

 अथ भुजाकोटि'फलयोः ऋणधनज्ञानायाह-भुजाफलमिति । प्रायेणेति क्वचिद् व्यभिचारो दर्शितः ॥ १२ ॥


मूलम् – 1. All the mss. om. क. It is supplied on the evidence of the extraction of this verse in other works like Putumana Somayāji's Karaņapaddhati, 6. 19.   2. A. धनाख्यमू

व्याल्या :-1. A. विशोघ्यम्

 2. C.D.E. घनु -ंgap - भवतीति

 3. D. om. कोटि