पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/42

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अथ तृतीयोऽध्यायः

( जीवानयनादि )

तिथ्यश्विदेवैः खखषट्कुदस्रान् हत्वाहिवेदाग्निकृताभ्रचन्द्रैः
विभज्य लब्धः’ परिधेः कलात्मा व्यासस्तदर्धं तु पदेऽन्त्यजीवा॥ १ ॥

देवाश्विनः षटिलवैर्द्बिरामैराढया हरो व्यासदलाद् यदाप्तम्।
तस्यार्धमन्त्यो गुणखण्ड* एतद् हीनान्त्यमौर्वी भवति ह्युपान्त्या॥ २ ॥

हरेण मौर्व्यास्तु यतो यदाप्तं
तत् स्वोर्ध्वखण्डेन युतं स्वखण्डम् ।
तेनोनिता सा निजपूर्वमौर्वी
नीत्वैवमेताः क्रमशस्तु पाठयाः ॥ ३ ॥


 अथ एभ्यो मध्यमेभ्यः स्फुटक्रियां वक्ष्यन् तत्साधनभूतं जीवानयनं वृत्तव्यासानयनं चाह-तिथ्यश्विदेवैरित्यादि । 'अनन्तपुरम्' (२१,६००) इत्येत 'मान्या स्त्री बाला” ( ३३,२१५) इत्यनेन निहित्य 'देवलो विनेयः' ( १,०४,३४८) इत्यनेन विभज्य लब्धः परिधे: सर्वस्यापि वृत्तस्य लिप्तात्मको व्यासो भवति । तस्य व्यासस्यार्ध पदे राशित्रयात्मके वृतपदे अन्त्यार्धज्या भवति ॥ १ ॥

 देवाश्विन इति । 'रज्ञे बाला स्त्री' (२३३ - ३२) इत्येष सावयवो हारः । व्यासाधद् हारेणाप्तं यत् फलं तस्यार्थम् श्रप्रन्त्यो ज्याखण्डः । एतेन हीना व्यासार्धरूपा अन्त्यज्या उपान्त्या त्रयोविंशी ज्या भवति ॥ २ ॥

 हरेण मौर्व्या इति। पूर्वोक्तेन हारकेण यतो ज्याया: यत्फलं लब्धं तत् स्वोर्ध्वज्याखण्डेन युतं स्वखण्डो भवति । तेन स्वखण्डेनोनिता सा निजपूर्वा ज्या भवति । एवं त्रयोविंश्याः द्वाविंशी ज्या आनेया । तत' एकविंश्यादिकाश्च व्युत्क्रमेण नीत्वा क्रमेण पाठयाश्च ॥ ३।


मूलम् :- 1. E. Scribal om. after लब्घ: to रङ्गे बाला स्त्री in com. of verse 2 below.

 2. G. खण्डं

व्याख्या '-1. A. साधनीभूतं

 2. A.B.C.D. बाहुला (wrong)

 3. C.D.F. त for तत