पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/43

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६
स्फुटनिर्णयतन्त्रै


( केन्द्रादिसंज्ञाः )

स्वोच्चोनितं मध्यमुशन्ति सन्तः
केन्द्राह्वयं, भत्रितयं पदाख्यम् ।
दो:कोटिके त्वोजपदे गतैष्यौ
युग्मे पदे व्युत्क्रमतश्च विद्यात् ॥ ४ ॥
केन्द्र त्रिभोने तु तदेव बाहु-
स्त्रिभाधिके तद्रहितं भषट्कात् ।
षड्भाधिके षड्भविहीनमेत-
च्चक्राद् विशुद्ध नवभाधिके स्यात् ॥ ५ ॥

( भुजाकोटिजीवानयनम् )

दोर्लिप्तिका तत्त्वकरांशसंख्या
दोर्ज्याथ तद्धीनजिनै: समान्या ।
व्यासं हरेच्छिष्टकलाभिराप्तो
हारोऽमुना दोर्गुणतो यदाप्तम् ॥ ६ ॥


 एवं जीवानयनमुक्त्वा केन्द्रादिसंज्ञामाह-स्वोच्चीनितमिति । स्वकीयेन मन्दोच्चेन रहितं मध्यमं सन्तः केन्द्रसंज्ञया व्यवहरन्ति । तथा राशित्रितयं पदाख्यमिच्छन्ति । ओजे प्रथमे तृतीये च पदे गतैष्यैः क्रमेण दोःकोटिके विद्यात् ।' युग्मे द्वितीये चतुर्थ च पदे व्युत्क्रमेण च विद्यात् ॥ ४ ॥

 अथ भुजानयनमेव स्पष्टार्थमाह-केन्देति। केन्द्रे राशित्रयादल्पे सति तत्केन्द्रमेव भुजा भवति । केन्द्रे राशित्रयादधिके राशिषट्कान्यूने च राशिषट्काद् विशाiधतं केन्दं भुजा भवति । [राशिषट्कादधिके राशिनवकादूने च राशिषट्कोनं केन्द्र भुजा भवति । ]' राशिनवकादधिके मण्डलाद् विशुद्धं केन्द्रं भुजा भवति ॥ ५ ॥

 अथ भुजाकोटिजीवानयनमाह त्रिभिः-दोर्लिप्तिका इति । भुजां लिप्तीकृत्य शरीरेण (२२५) विभज्य लब्धसंख्यातुल्या पठितज्या भुजाज्या


मूलम् :- 1. G.H. भार्षाघिके

ज्याख्या :-1 B.D.E.om. विद्यातू

 2. Hapl, om, in all mss.