पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/41

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४
स्फुटनिर्णयतन्त्रे

सूर्यमध्यमस्य राशिभागकलाविकलाभिः' पृथक् पृथक् निहत्य सूर्यस्य कल्पभगणैविभजेत् ।

 तत्र राशिघ्नेभ्यो ग्रहभगणेभ्यो लब्धा राशयः । तत्र शिष्टं त्रिंशता निहत्य भागध्नेषु संयोज्य लब्ध.भागाः। तत्रापि शिष्टं षष्टया निहत्य कलाघ्नेषु संयोज्य लब्धा लिप्ताः । तत्रापि शिष्टं षष्टया निहत्य विकलाघ्नेषु भगणेषु संयोज्य सूर्यभगणैर्लब्धा विकलाश्च भवन्ति । ततो यथास्वं संवत्सरादिध्रुवर्युक्तास्ते चन्द्रादीनां मध्यमा भवन्ति ॥ ११॥

॥ इति स्फुटनिर्णयविवृतो मंध्यमानयनं नाम द्वितीयोऽध्यायः ॥


व्याख्या :-1. D. Hapl. om. from सूर्य to सूर्यस्य below.

 2. E. विकलासुभिः (wr.)

 3. A.ज्यं ततो लब्धाः ; C.E. ज्य ततो लब्धाः