पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/40

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३
तिीयोऽध्यायः


( देशान्तरसंस्कारः )

नखेषुरामाः परिधिर्धरायाः, स लम्बकघ्नस्त्रिभजीवयाप्तः।
स्वदेशजस्तेन हरेत् स्वदेशसमानरेखान्तरयोजनघ्नीम् ॥ ६ ॥

सरोजबन्धोर्दिनभुक्तिमाप्तं
प्रत्यग् धनं प्रागृणमर्कमध्ये

( चन्द्रादिमध्यमम् )

कृत्वा चतुर्था भगणान् ग्रहाणां
हत्वा च भाद्यै रविमध्यमस्य ॥ १० ॥

राश्यादयो भास्करपर्ययाप्ता राश्यादिशेषास्तु खपुष्कराद्यैः।
हत्वांशकघ्नादिषु योजनीया मध्या ध्रुवाढयाः स्युरमी यथा स्वम् ॥ ११॥

॥ इति स्फुटनिर्णयतन्त्रे मध्यमानयनं नाम द्वितीयोऽध्यायः ॥


नाडिकाद्यं कालं अभीष्टदिवसे उदयात् परं गतेन घटिकादिकालेन युक्तं पृथग् विन्यस्य द्वाभ्यां हत्वा एकोनचत्वारिंशदधिकेन शतेन (१३९) विभज्य लब्धमन्यस्माद् विशोध्य शिष्टं अर्कमध्यमस्य लिप्तादौ योज्यम् । तदकंमध्यमं समरेखायां मध्यमार्कोदयावधेः स्फुटं भवति ॥ ८ ॥

 अथ देशान्तराख्यं संस्कारमाह-नखेषुगमा इत्यादि । ‘उग्रः शूली' (३५२०) इति भूमेः परिधिः। स लम्बकेन वक्ष्यमाणेन निहतः त्रिराशिज्ययाप्तः स्वदेशसमपूर्वापरो भूपरिधिः लङ्कामेरूज्जयिन्याद्यवगाहिनी सम दक्षिणोत्तरा रेखा समरेखा नाम। स्वदेशस्य तत्समपूर्वापरगतस्य समरेखाभागस्य चान्तरालयोजनैः सूर्यस्य दिनगतिं लिप्तात्मिकां निहत्य स्वदेश भूपरिधियोजनं विभजेत् । लब्धं लिप्ताद्यं अर्कं मध्यमे संस्कार्यम् । स्वदेशसमरेखायाः प्रत्यग्गते धनं, प्राग्गते ऋणमिति । तत् स्वदेशोदयार्कमध्यमं भवति ॥ ९-१०३ ॥

 अथानेन अर्कममध्यमेन चन्द्रादीनां मध्यमानयनमाह-कृत्वा चतुर्था भगणानित्यादि । चन्द्रादीनां भगणान् ऊध्र्वाधश्चतुर्षु स्थानेषु विन्यस्य


व्याख्या :-1. E. स्वदेशजस्तम

 2. A. अघोऽपश्यतु