पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/39

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
स्फुटनिर्णयतन्त्रै


मासे यातैः समेतास्तिथिभिरथ पृथग् वेदतर्काप्तहीनाः
घस्राः स्युः सावनास्तैः स्वरहृतपरिशिष्टैस्तु वारोऽब्दपाद्यः ॥ ६ ॥

(रविमध्यमम् )

दिवसा भानुभगणैर्द्वादशाद्यैश्च ताडिताः ।
कल्पोक्तैर्भूदिनैर्भाज्याः सूर्यमध्यमसिद्धये ॥ ७ ॥

अब्दान्तवारे घटिकाद्यमेष्यमभीष्टवारे गतकालयुक्तम्।
पृथग् द्विनिघ्नं' नवविश्वभक्तहीनं कलाद्यं रविमध्यमे स्वम् ॥ ८॥


 पुनस्तान् त्रिशता निहत्य ततः सङ्क्रन्तितिथयो विशोध्याः । तं च' अब्दादिध्रुवेन्दुं भागीकृत्य ततो द्वादशभिर्लब्धैरूना वर्तमानगतैस्तिथिभिर्युक्तास्ते गततिथयः । तान् पृथग् विन्यस्य चतुष्षष्ट्या विभज्य लब्धैहींनास्ते सावनदिवसाः स्युः । तैः सप्तहृतावशिष्टैः अब्दपतयो वारेशाश्च स्युः । सङ्क्रान्तिवारेशात्परोऽब्दपः ॥ ६ ॥

 अथ सावनदिवसैरर्कमध्यमानयनमाह-दिवसा भानुरित्यादिना । एते सावनदिवसाः भानोः कल्पभगणेर्निहत्य द्वादशादिभिश्च' निहित्य कल्पोक्तैर्भूदिनैर्भोज्या: । लब्ध राश्यादिकमर्कमध्यमं भवति॥ ७ ॥

 अथास्य सूर्यमध्यमस्य दिवसावयवभूतैर्नाडिकादिभिग्संस्कारमाह— अब्दान्तवारे इति । अब्दान्तवारे सङ्क्रान्तिदिवसे एष्यं सङ्क्रान्तेः परं


मूलम् :- 1. G.H. कल्पोक्त्त for कल्पोक्तै:

 2. G.H. भानु for सूर्य

 3. C.D.E. द्विनिघ्नात्

व्याख्याः- 1. C.D.F. ताश्च ; E. तां च

 2. E.F. तुल्या for ऊना

 3. it 3. B.C.D.E. बर्तमागतै;, i.e. न left out.

 4. E. द्वादशभिश्च