पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/38

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११
द्वितीयेऽध्यायः


(अवाब्दादिध्रुवः )

कलेः समाः खेचरपर्ययघ्नीर्हरेत् खरांशोर्भगणैः , पुनस्तैः ।
इनोदिभक्तैश्च, युता ध्रुवैः स्वैः' कल्यादिजैः स्युर्ध्रुवकाः समादैौ ॥४॥


( अब्दाविचारः )


कल्यब्दैर्निहता नवेन्दुवियदद्येकेषुशैलाग्निवे-
दार्था भास्करपर्ययैश्च विहृताः षष्टया मुहुश्चोद्धृतैः ।
कल्यादिप्रभवैश्च वासरमुखैर्युक्ताः पुनः सप्तभि
स्तष्टा वारमुखस्तु वत्सरमुखे भानोरमी स्युः स्फुटाः ॥ ५ ॥


( सावनदिनानि )


यातारचैत्रादिमासाः सति पुनरधिमासाढ्ये तेन चाढ्यास्
त्रिंशघ्ना वत्सरादिध्रुवविधुलवतो द्वादशाप्तैर्विहीनाः।


 अथ कल्यब्दैरब्दादिध्रुवानयनमाह-कलेरित्यादि । कलेर्गतास्समा इन्द्रादिग्रहाणां भगणैनिहत्य सूर्यस्य कल्पभगणैविभजेत् । लब्धाः कलो गता भगणाः। शिष्टं द्वादशोद्धृतैः सूर्यभगणैविभजेत् । लब्धा राशयः। शिष्टं त्रिशदुद्धतेन राशिहारकेण विभजेत् । लब्धा भागाः । ततषष्टयंशेनाप्ता लिप्ताः। शिष्टात् षष्टिघ्नात् तेनैवाप्ता विकलाश्च भवन्ति । पुनः कल्पादिशैः पूर्वानीतैर्भावैर्युक्ता वर्तमानसंवत्सरावौ ध्रुवा भवन्ति ॥ ४ ॥

 अथ अब्दादिवारज्ञानायाह--कल्यदेरित्यादि । ‘धन्यो नासत्यमासगो विष्णुः (५,४३,७५,१७०१९) इत्येतत् कल्यब्दैनिहत्य कल्पोक्तसूर्यभगणैविभज्य लब्धा दिवसाः। शिष्टात् षष्ठयुद्धतेः सूर्यस्य भगणैविभज्य लब्धा नाडिकाः । पुनस्तत्षष्टयंशेविनाडिकाश्च । पुनरते कल्याविभवैदिवसनाडिक़ादिभिर्युक्ताः सप्तहृतशिष्टाः सूर्यवारादयः सङ्क्रान्तिध्रुवा भवन्ति ॥ ५ ॥

 अथ वर्तमानाब्दे गतानां सावनदिनानां ज्ञानायाह-याताश्चैत्रादीति । वर्तमानाब्दे याताश्चैत्रादयो मासाःतन्मध्येऽधिमांसे सति सेकाः कार्याः ।


मूलम् :- 1. D.G.H. श्रवैश्च

याल्या :-1. D.E.F. विभज्य omitted.

 2. D. वर्तमानेऽब्दे