पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/37

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०
स्फुटनिर्णयतन्त्रे


( कल्यादिवारः )

कल्यादौ स्युरमी ध्रुवा विरहिताश्चक्रात् तु पाताः स्फुटाः
नन्देन्द्वभ्रगिरीषुभिर्नवरसेष्वब्धीन् निहत्याऽऽयुतैः ।
तष्ट्वा सप्तभिरत्र, शिष्टमयुतेनोद्धृत्य सूर्यादितो'
वाराः स्युर्घटिकादयस्त्विह मुहुः' षष्टया हताच्छिष्टतः ॥ २ ॥

(गतकल्यब्द: )

कोलम्बवर्षा गतमीनमासे ये ते रसाश्व्यङ्कगुणैः समेताः ।
कलेर्गताब्दाः स्युरथो शकाब्दा नवाद्रिरूपाग्नियुताश्च तद्वत् ॥ ३ ॥


इति । शिष्टेनाप्येवं त्रैराशिकम्—यदिदं' शिष्टं अयुतसंख्यं स्यात्, तदा द्वादशराशयः स्युः, तदा अनेन शिष्टेन कियन्तो राशयः स्युरिति ॥ एवं भागादिष्वप्यूह्यम् ॥ १ ॥

 अथ कल्यादौ वारानयनार्थमाह-कल्यादौ स्युरिति। अमी चन्द्रादीनां कल्यादौ ध्रुवाः स्युः । तथा मन्दोच्चानां पातानां च । पातास्तु मण्डालाद्विशोधिता स्पष्टा भवन्ति, तेषां विलोमगतित्वात् । ‘धृतश्शिवः' ( ४५६९ ) इत्येनं ‘धन्यो नस्सोमः' (५७,०१९) इत्यनेन निहत्य अयुतसप्तकेन (७०,०००) तष्ट्वा शिष्टं प्रयुतेन विभज्य लब्धाः सूर्यादितो गतवाराः । शिष्टं षष्टया निहत्य अयुतेनैवाप्ता वर्तमानवारे नाडिकाः । शिष्टादपि षष्टश्चैव हताद्' अयुतेनैवाप्ता विनाडिकादयोऽपि स्युः । श्रप्रत्र मध्यमाध्याये युक्तयस्त्रैराशिकप्राया इति ग्रन्थविस्तरभयान्न लिख्यन्ते ॥ २ ॥

 अथ कलौ गताब्दज्ञानायाह-कोलम्बवर्षा इति । गतमीनमासे ये कोलम्बवर्षाः ते ‘चन्द्रो धीग:' (३९२६) इत्यनेन युक्ताः कलेर्गताब्दा भवेयुः ॥ कोलम्बवर्षाणां कन्यामासावधिकत्वाद् गतमीनमासे इत्युक्तम् । कन्यादिमाससप्तके कोलम्बवर्षा व्येका ग्राह्या इत्यर्थ: । अथवा शकाब्दाः 'धूसीकाले'न (३१७९) युक्ताश्च तद्वत् कलेर्गताब्दाः स्युः ॥ ३ ॥


मूलन् :- 1. G.H. सूर्योदयो (wr.)

 2. A. पुनः for मुहु:

टयाल्याः 1. B.C., यदीयं

 2. E. Long unindicated gap from ताद् to गतमीन in the com. of the next verse.