पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/36

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अथ द्वितीयोऽध्यायः



( कल्यादिध्रुवः )

रन्ध्राङ्गसायककृतैर्भगणान् . ग्रहाणां
हत्वाऽयुतेन विभजेत् गतपर्ययाः स्युः ।
शिष्टं निहत्य रविभिर् खगुणैश्च षष्ट्या
तेनैव भांशककला विकलाश्च लब्धाः ॥१॥

 अथ उक्तैर्भगणादिभिः कल्यादिध्रुवानयनमाह-रन्ध्राङ्गसायककृतरिति । . ग्रहाणाम् इन्द्वादीनां भगणान् ‘धृतशिवः' (७५६९) इत्यनेन निहत्य अयुतेन (१०,०००) विभजेत् । लब्धा गतभगणाः स्युः। शिष्टं द्वादशभिर्निहत्य अयुतेन लब्धा राशयः, शिष्टं त्रिंशता निहत्य अयुतेन लब्धा भागाः, शिष्टं षष्टया निहत्य अयुतेन लब्धाः कलाः, शिष्टं षष्टया निहत्य प्रयुतेन लब्धा विकलाश्च भवन्ति ।

 अत्रेयमुपपत्तिः-ये षण्मनवो गताः, तेषां कालस्य एकैकमेकसप्ततियुगात्मकत्वात् एकसप्ततिः षड्गुणिताः षड्विशत्यधिकचतुश्शती (४२६) युगसंख्या भवति। तस्यां पुनः मनुसृष्टेः प्राग् गतं युगत्रयम् , सप्तमस्य मनोर्गतानि सप्तविंशतियुगानि च क्षप्याणि । ततः षट्पञ्चाशदधिका चतुश्शती (४५६) जायते। तस्यां पुनरष्टाविंशस्य युगस्य कृतत्रेताद्वापराख्यं दशांशनवकं क्षेप्यम् । तत्र सवर्णीकृतानामेव मिथो योगार्हत्वाद् दशघ्नेषु गतेषु युगेषु' नवकं क्षिप्यते । ततो 'धृतश्शिवः' (४५६९) इात युगदशांशकाः कल्यादौ गता भवन्ति । कल्पस्य युगसहस्रात्मकत्वात् कल्पे अयुतसंख्या युगदशांशाः स्युः । तत्रेदं त्रैराशिकम्--यद्ययुतेन युगदशांशः कल्पभगणा लभ्यन्ते, ततः कल्यादौ गतैरेतैर्युगदशांशैः कति भगणा लभ्यन्त इति। अत्र अयुतं प्रमाणम् । रन्ध्राङ्गसायक कृताः (४५६९) इच्छाराशिः। कल्पभगणाः फल राशिः । फलराशिमिच्छाराशिना निहत्य प्रमाणराशिना विह्रत्य' लब्धमिच्छाफलं भवति। तदुक्तमार्यभटाचार्येण----

 त्रैराशिकफलराशिं तमथेच्छाराशिना हतं कृत्वा ।

 लब्धं प्रमाणभजितं तस्मादिच्छाफलमिदं स्यात् ॥

(आर्यभटीये गणितपादे २६)
 

व्याख्या:-1. A.C.F. गतयुगेषु

 2. B.C.E. Om. सायक

 3. A.विभज्य

स्फुटनिर्णयतन्त्रम्-२