पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/34

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रथमोऽध्यायः

( ग्रहाणां ओजान्तपरिधयः )

द्वाभ्यां द्वाभ्यां तद्वदेकेन हीना द्वाभ्यामेकेनाप्ययुग्मावधौ ते।
मध्ये युग्मौजान्तवृत्तान्तरघ्न्या दोर्ज्यायास्ते त्रिज्ययाऽप्तेन हीनाः ॥१४॥

( ग्रहाणां परमक्षेपाः)

क्षेपाः शशाङ्कात् परमाः क्रमेण नागाहिदस्राः, स्मरबाणनन्दाः।
खवेदरामाः, खकुलाचलाश्च, बाणाद्रिचन्द्राः, स्वरभास्कराश्च ॥१५॥

( ग्रहाणां बिम्बयोजनानि )

सूर्यात् खखाद्रि'निगमा, रसनिर्जराश्च
दन्तेषवः, खकुलपर्वतलोचनानि ।
अष्टाब्धिसायकशराः, कृतबाणवेदाः
खव्योमनागनवका,स्तनुयोजनाः स्युः ॥ १६ ॥

॥ इति स्फुटनिर्णयतन्त्रे संख्याकथनं नाम प्रथमोऽध्यायः ॥


 अथैषामेवोजान्तपरिधीनाह-द्वाभ्यां द्वाभ्यां तद्वदेकेन हीनाविति। ते त्र्यार्थादयः द्वयादिभिर्हीनाः भौमादीनां युग्मपादावधी वृत्तांशकाः स्युः । कुजस्य एकपञ्चाशदित्यादि। मध्ये पदमध्ये युग्मोजान्तवृत्तान्तरेण द्वाभ्यामित्याधुक्तेन गुणिताया दोदोर्ज्यााः त्रिराशिज्ययाप्तेन हीनाः त्रिपञ्चाशदादयः वृत्तांशकाः स्युः ॥ १४ ॥

 अथ चन्द्रादीनां परमक्षेपानाह-क्षेपाः शशाङ्कादिति । 'देहीन्द्र' (२८८) इति इन्दोः, 'मुग्धः' (९५) इति कुजस्य। 'नाभागः' (३४०) इति बुधस्य। 'नाथः' (७०) इति गुरोः । 'मासिकः' (१७५) इति शुक्रस्य । 'सद्रूपः' (१२७) इति शनेः ॥ १५॥


मूलम् :-1. A. खखाहि

 2. A. बाणनन्दाः