पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/33

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
स्फुटनिर्णयतन्त्रै .


( कृतादियुगानि )

कृतं त्रेता द्वापराख्यं 'कलिश्च युगाशांशा वेदवह्वयश्चिभूध्नाः ।
मनोरस्मिन् सप्तमस्यार्कसूनोर्युगेऽष्टाविंशे कलिर्वर्तमानः ॥ ११ ॥

( ग्रहाणां मन्दपरिधयः )

सूर्यादीनां मान्दवृत्तांशकाः स्युः सार्धा विश्वे, सार्धरूपाग्नयश्च ।
वारिध्यश्वाः, षष्टिरथाग्नयश्च, विश्वे, वेदाम्भोधयश्च क्रमेण ॥ १२ ॥

( ग्रहाणां शीघ्रपरिधयः )

भौमादीनां युक्पदान्तेषु शैघ्रा वृत्तांशाः स्युः सार्धवेदापवृत्ताः ।
त्रयर्था, उर्वीवह्वय, स्तर्कचन्द्रा, गोनालीकाः, सार्धकाष्ठाः क्रमेण ॥१३॥


 अथ कृतादिभेदान् वर्तमानकाल चाह-कृतं त्रेतेति। युगस्य आशांशा दशांशाः । वेदगुणिताः कृतयुगांशाः । त्रिगुणिताः त्रेतायुगम् । द्विगुणिताः द्वापरयुगम् । एकगुणिताः कलियुगम् । अर्कसूनोः वैवस्वताख्यस्य सप्तमस्य मनोरष्टाविंशे युगे कलिर्वर्तमानः ॥ ११ ॥

 ग्रथ सूर्यादीनां मान्दपरिधीनाह-सूर्यादीनामिति । सूर्यस्य अर्धाधिकास्त्रयोदश ( १३३ ) । चन्द्रस्य अर्धाधिका एकत्रिशत् ( ३१ ) । कुजस्य चतुस्सप्ततिः (७४ ) । बुधस्य षष्टिः (६० ) । गुरोः पञ्चत्रिशत् (३५) । शुक्रस्य त्रयोदश (१३) । शनेः चतुश्चत्वारिशत् (४४) इति ॥ १२ ॥

 अथ भौमादीनां शैघ्र*परिधीनाह---भौमादीनामिति । युक्पदान्तेषु केन्द्रस्य युग्मपदावसानेषु सार्धवेदापवृत्ताः अर्धाधिकैश्चतुभिरपवर्तिताः । कुजस्य त्रिपञ्चाशत् (५३) । बुधस्यैकत्रिशत् (३१) । गुरोः षोडश (१६) । शुक्रस्यैकोनषष्टिः (५९) ॥ शनेरधर्धाधिका दश (१०) ॥ १३ ॥


मूलम् :- 1, 2. BCD.E.F. A few letters left out, but gap. indicated.

 3. G. H. मन्द

दृश्याग्रा : - 1. B. शीघ्त्र