पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/32

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रधमोऽध्यायः

(मन्वादिप्रमाणम् )

 चतुर्दश स्युर्मनवो विधेर्दिने युगानि चैषां पृथगेकसप्ततिः ।
युगत्रयं प्राङ् मनुसृष्टितो गतं भविष्यदेषां प्रलयात् परं तथा ॥१०॥

 अथ मन्वन्तरादीनां प्रमाणमाह-चतुर्दश स्युरिति। विधेर्दिने कल्पे चतुर्दश मनव: स्युः। तेषां मनूनां पृथक् प्रत्येकं एकसप्ततिर्युगानि च स्युः। मनुसृष्टितः स्वायंभुवाख्यस्य मनोः सृष्टेः प्राग युगत्रयं गतम् । एषां मनूनां प्रलयात् संहारात् परं तथा युगत्रयं भविष्यत् । विधेर्दिने इत्यनेन सृष्ट्यब्दकल्पनमनुचितमिति द्योतितम् । यत: सुरपितृमनुजानां सूर्यदर्शनकालो दिनं, तददर्शनकालो रात्रिः । ततो विधेरपि सूर्यस्य सृष्टयनन्तरं तदर्शनकालो दिनं, सूर्यसंहारात् परं तददर्शनकालो रात्रिः। स्वायंभुवमनोः' सृष्टि: कल्पे कञ्चित्कालमतीत्यैवेति हि पुराणप्रसिद्धिः । तथा च भागवते दर्शनं विदुरमैत्रेयसंवादे---

ऋषीणां भूरिवीर्याणामपि सर्गमविस्तृतम् ।
ज्ञात्वा तद्वृद्धये भूयश्चिन्तयामास कौरवः ॥
अहो अद्भुतमेतन्मेऽप्यावृतस्यापि नित्यदा।
न ह्येधन्ते प्रजा नूनं दैवमत्र विघातकम् ॥
एवं युक्तिकृतस्तस्य दैवं चावेक्षतस्तदा ।
कस्य रूपमभूद् द्वेधा' यत्कायमभिचक्षते ॥
ताभ्यां रूपविभागाभ्यां मिथुनं समपद्यत ।
यस्तु तत्र पुमान् सोऽभून्मनुः स्वायंभुवः स्वराट् ॥
स्त्री' आसीच्छतरूपाख्या महिष्यस्य महात्मनः ।
तदा मैथुनधर्मेण प्रजा हयेषांबभूविरे ॥

(भागवतपुराणे ३. १२. ४६-५४)
 

इति। युगावसाने सर्वेषां भगणपरिपूर्तिरपि भागवतोक्ता---

यदा० चन्द्रश्च सूर्यश्च॥ तथा तिष्यबृहस्पती।
एकराशौ समेष्यन्ति तदा भवति तत् कृतम् ॥

(भागवतपुराणे १२. २. २४) ॥१०॥
 

मूलम् :- 1. E. युगत्रिक

व्याख्या :-1. A. सूर्यसृष्टयनन्तरं 2. A. भुवाख्यस्य मनोः ; C. भुवस्य मनोः

 3-9. B.C D.E.F. Gap for a few letters, but not uniformly. in all the five mss. In B, the reviser has filled these gaps.

 10. A.B. यथा,  11.Gap in all mss. for सूर्यश्च ।